पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७३
श्रीशिवसहस्रनामस्तोत्रम्

गान्धारश्च सुवासश्च तपस्सक्तो रतिर्नरः ।
महागीतो महानृत्यो ह्य्प्सरोगणसेवितः ॥ ११७
महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।
आवेदनीय आवेशः सर्वगन्धसुखावहः ॥ ११८
तोरणस्तारणो वातः परिधीपतिखेचरः।
संयोगो वर्धनो वृद्धो ह्यतिवृद्धो गुणाधिकः ॥११९
नित्य आत्मा सहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः ॥१२०
आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥१२१
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः।
अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ १२२
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः।
निर्जीवो जीवनो मन्त्रश्शुभाक्षो बहुकर्कशः ॥१२३
रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ।
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥१२४