पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीसुब्रह्मण्यस्तोत्रम् ॥
आदित्यविष्णुविघ्नेशरुद्रब्रह्ममरुद्गणाः ।
लोकपालास्सर्वदेवाश्चराचरमिदं जगत् ॥ १
सर्वं त्वमेव ब्रह्मैव अजमक्षरमद्वयम् ।
अप्रमेयं महाशान्तमचलं निर्विकारकम् ॥२
निरालम्बं निराभासं सत्तामात्रमगोचरम् ।
एवं त्वां मेधया बुद्ध्या सदा पश्यन्ति सूरयः ॥३
एवमज्ञानगाढान्धतमोपहतचेतसः।
न पश्यन्ति तथा मूढाः सदा दुर्गतिहेतवे ॥४
विष्ण्वादीनि स्वरूपाणि लीलालोकविडम्बनम्।
कर्तुमुद्यम्य रूपाणि विविधानि भवन्ति च ॥५
तत्तदुक्ताः कथास्सम्यक् नित्यसद्गतिप्राप्तये ।
भक्त्या श्रुत्वा पठित्वा च दृष्ट्वा सम्पूज्य श्रद्धया॥६
सर्वान्कामानवाप्नोति भवदाराधनात्खलु ।
मम पूजामनुग्राह्य सुप्रसीद भवानघ ॥७