पृष्ठम्:बीजगणितम्.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सेयं गरिणतशैली भारतीयैर्दत्तहस्तावलम्बा लुता माभूद् एतदर्थमंत्र विशिष्य माचीनपरिपाटया गणितजातं विश्वविद्यालय च्छात्रतुष्टयै मादर्शि। किं बहुना, यथा विस्मृतबीजगणितानामपि ग्रन्थपाठमात्रेणा- धीतस्मरण स्याद् यथा वा परीक्षाकामुकानां गणितकरणमन्तरेण बोध: स्यात्, तथात्र प्रयनोऽकारि | भवति चात्र श्लोकः- अत्तानतरप्रमेय रचनापारम्परीबन्धुरं स्पष्टोदाहरणक्रमं कचिदहो नूनक्रियामांसलम् । एवं बालकबोधसाधनकुते टीकान्तरेभ्योऽधिक भाषाभाष्यमिदं पठन्तु गणका व्युत्पत्तिसंपत्तये || एतदेव श्रीमद्भास्करीयं बीजगणित संप्रति सर्वत्र पठनपाठन- व्यवहारेषु मवर्तते । श्रीधरपद्मनाभवीजे तु नामतो ज्ञायते । यद् ब्रह्मगुप्तबीजं ब्राह्मस्फुटसिद्धान्तान्तर्गतं दृश्यते तन्तु शब्दार्थतः संकुचितमेव / एकं ज्ञानराजदैवज्ञैरुपनिषद्धं तदपि स्वल्पम् । एवं नारायणीयबीजमपीति दिक् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:बीजगणितम्.pdf/३&oldid=382832" इत्यस्माद् प्रतिप्राप्तम्