पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/32

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३१ )
नीति कथा माला ॥

रक्तस्य पानं करोषि तत् तिष्ठ, अभीष्टतरं रक्तम् आस्वादय । सोऽब्रवीत्, "भगवति ! एवमेव करिष्यामि । यावत् त्वं प्रथमं नृपस्य रक्तं न आस्वादयसि, तावत् मम देवगुरुकृतः शपथः स्यात्, यदि तत् आस्वादयामि" ।

 ५. एवं, तयोः परस्परं वदतोः, स राजा तत् शयनम् आसाद्य प्रसुप्तः । अथ, असौ मत्कुणो जिह्वालोल्यात् जाग्रतम् अपि तं महीपतिम् अदशत् । अथवा साधु इदम् उच्यते'

"स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा;
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥"

 ६. अथ, असौ नृपतिः सूच्यग्रेण विद्ध इव, तत् शयनं त्यक्त्वा तत्क्षणादेव उत्थितः । "अहो ! ज्ञायताम्' अत्र प्रच्छादनपटे मत्कुणो, यूका वा नूनं तिष्ठति, येन अहं दष्टः" अथ ये कञ्चुकिनः तत्र स्थिताः' ते सत्वरं प्रच्छादनपटं गृहीत्वा सूक्ष्मया दृष्ट्या वीक्षांंचक्रुः । अत्रान्तरे, स मत्कुणः चापल्यात् खट्वान्तं प्रविष्टः, सा मंदविसर्पिणी तु वस्त्रसंधेः अंतर्गता तैः दृष्टा, व्यापादिता च ।

नह्यविज्ञातशीलस्य प्रदातव्यः प्रतिश्रयः;
मत्कुणस्य हि दोषेण हता मन्दविसर्पिणी ।