पृष्ठम्:प्रस्थानभेदः.djvu/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रस्थानभेदः ।

पूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यादिः । अङ्गसंबन्धबोधको विधिर्विनियोगविधिः 'व्रीहिभिर्यजेत' 'समिधो यजति' इत्यादिः । साङ्गप्रधानकर्मप्रयोगैक्यबोधकः पूर्वोक्तविधित्रयमेलनरूपः प्रयोगविधिः । स च श्रौत इत्येके, कल्प्य इत्यपरे । कर्मस्वरूपं च द्विविधं गुणकर्मार्थकर्म चेति । तत्र ऋतुकर्मकारकाण्याश्रित्य विहितं गुणकर्म । तदपि चतुर्विधम् उत्पत्त्याप्तिविकृतिसंस्कृतिभेदात् । तत्र 'वसन्ते ब्राह्मणोऽग्नीनादधीत' 'यूपं तक्षति' इत्यादावाधानतक्षणादिना संस्कारविशेषविशिष्टाग्नियूपादेरुत्पत्तिः । 'स्वाध्यायोऽध्येतव्यः' 'गां पयो दोग्धि' इत्यादावध्ययनदोहनादिना विद्यमानस्यैव स्वाध्यायपयःप्रभृतेः प्राप्तिः ।'सोममभिषुणोति' 'व्रीहीनवहन्ति' 'आज्यं विलापयति' इत्यादावभिषवावघातविलापनैः सोमादीनां विकारः । 'व्रीहीन्प्रोक्षति' 'पत्न्यवेक्षते' इत्यादौ प्रोक्षणावेक्षणादिभिर्व्रीह्यादिद्रव्याणां संस्कारः । एतच्चतुष्टयं चाङ्गमेव । तथा क्रतुकारकाण्याश्रित्य विहितमर्थकर्म द्विविधमङ्गं प्रधानं चेति । अन्यार्थमङ्गम् । अनन्यार्थं प्रधानम् । अङ्गमपि द्विविधं संनिपत्योपकारकमारा