पृष्ठम्:प्रस्थानभेदः.djvu/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
प्रस्थानभेदः ।

दीक्षाभिषेकशकुनमङ्गलकरणादिकं च सर्वमपि प्रथमे पादे निरूपितम् । सर्वेषां शस्त्रविशेषाणामाचार्यस्य च लक्षणपूर्वकं संग्रहणप्रकारो दर्शितो द्वितीयपादे । गुरुसंप्रदायसिद्धानां शस्त्रविशेषाणां पुनः पुनरभ्यासो मन्त्रदेवतासिद्धिकरणमपि निरूपितं तृतीयपादे । एवं देवतार्चनाभ्यासादिभिः सिद्धानामस्त्रविशेषाणां प्रयोगश्चतुर्थपादे निरूपितः । क्षत्रियाणां स्वधर्मयुद्धाचरणं दुष्टस्य दण्डश्चोरादिभ्यः प्रजापालनं च धनुर्वेदस्य प्रयोजनम् । एवं च ब्रह्मप्रजापत्यादिक्रमेण विश्वामित्रप्रणीतं धनुर्वेदशास्त्रम् ॥

 एवं गान्धर्ववेदशास्त्रं भगवता भरतेन प्रणीतम् । गीतवाद्यनृत्तभेदेन बहुविधोऽर्थः । देवताराधननिर्विकल्पकसमाध्यादिसिद्धिश्च गान्धर्ववेदस्य प्रयोजनम् ॥

 एवमर्थशास्त्रं च बहुविधं नीतिशास्त्रमश्वशास्त्रं शिल्पशास्त्रं सूपकारशास्त्रं चतुःषष्टिकलाशास्त्रं चेति । नानामुनिभिः प्रणीतं तत्सर्वम् । अस्य च सर्वस्य लौकिकवत्प्रयोजनभेदो द्रष्टव्यः ॥