पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२ श्रीरङ्गरामानुजभाष्ययुक्ता [५. ७. प्रत्यभिज्ञानाच्च । तत्र संशष्यते---- किमिह परं पुरुषमिति निर्दिष्टो जीवसमष्टि- रूपोऽण्डाधिपतिश्चतर्मुखः, उत सर्वेश्वरः पुरुषोत्तम इति । किं युक्तम् ! समष्टि- क्षेत्रज्ञ इति कुतः स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतर वाव स तेन लोकी त्यती" ति प्रक्रम्यैकमात्रं प्रणवमुपासीनस्य मनुष्यलोक- प्राप्तिमभिधाय द्विमात्रामुपासकास्य अन्तरिक्षलोकप्राप्तिमभिधाय त्रिमात्रमुपासीनस्य प्रौद याऽभिधीयमानो लोकोऽन्तरिक्षात्परो जीवसमष्टिरूपस्य चतुर्मुखस्य लोक इति जायते चेक्ष्यमाणस्तल्लोकाधिपश्चतुर्मुख एव । "एतस्माज्जीव- घनात्परात्पर" मिति च देहेन्द्रियादिभ्यः पराद्देहेन्द्रियादिभिःसह घनीभूताज्जीव- व्यष्टिपुरुषात् ब्रह्मलोकवासिनः समष्टिपुरुषस्य चतुर्मुखस्य परत्वेनोपपद्यते । अतोऽत्र निर्दिश्यमानः परः पुरुषः समष्टिपुरुषश्चतुर्मुख एव । एवं चतुर्मुखत्वे निश्चिते अजरत्वादयो यथाकथञ्चिन्नेतव्या इति प्राप्ते प्रचक्ष्महे - " ईक्षतिकर्म व्यपदेशात्स" इति । ईक्षतिकर्म सः परमात्मा । कुतः ? व्यपदेशात् । व्यपदिश्यते हीक्षतिकर्म परमात्मत्वेन । तथा हि । ईक्षतिकर्मविषयतयोदाहृते श्लोके " तमोंकारेणैवायने- नान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परञ्चे" ति परं शान्तमजरमभय- ममृतमिति हि परमात्मन एवैतद्रूपम् । "एतदभयमेतदमृतमेतद्ब्रह्मे " त्येवमादिश्रुतिभ्यः। 'एतस्माज्जीवघनात्परात्पर" मिति च परमात्मन एव व्यपदेशः, न चतु- र्मुखस्य । तस्यापि जीवघनशब्दगृहीतत्वात् । यस्य हि कर्मनिमित्तं देहित्वं स जीवधन इत्युच्यते । चतुर्मुखस्यापि तच्छृूयते । “यो ब्रह्माणं विदधाति पूर्व मित्यादौ । यत्पुनरुक्तमन्तरिक्षलोकस्योपरि निर्दिश्यमानो ब्रह्मलोकश्चतुर्मुखलोक इति प्रतीयते । अतस्तत्रस्थश्चतुर्मुख इति । तद्युक्तम् । यत्तच्छान्तमजरममृत- मभय " मित्यादिना ईक्षतिकर्मणः परमात्मत्वे निश्चिते सतीक्षित: स्थानतया निर्दिष्टो ब्रह्मलोको न क्षयिष्णुश्चतुर्मुखलोको भवितुमर्हति । किञ्च “यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मनः विनिर्मुक्तःससामभिरुन्नीयते ब्रह्मलोक " मिति सर्वपापविनिर्मुक्तस्य प्राप्यतयोच्यमानं न चतुर्मुखस्थानम् । अत एव चोदाहरण श्लोके इममेव ब्रह्मलोकमधिकृत्य श्रूयते "यत्तत्कवयो वेदयन्ते " इति । कवयः सूरयः । सूरिभिदृश्यञ्च वैष्णवं पदमेव । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय 11 तिभ्यः । 16 " 66