पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [द्वितीयोऽङ्कः ६४ यतः - परममविदुषां पदं नराणां पुरविजयी करुणाविधेयचेताः । कथयति भगवानिहान्तकाले भवभयकातरतारकं प्रबोधम् ॥१३॥ तदेवाह– परममविदुषामित्यादि । परमं पदं ब्रह्मस्वरूपम् । ‘तद्विष्णोः परमं पदम्', 'विष्णोः पदे परमे मध्व उत्सः', 'विश्वं नारायणं देवमक्षरं परमं पदम्' इत्यादिश्रुतिभ्यः परमपदस्य ब्रह्मस्वरूपलावगमात् । अविदुषामजानताम् । 'न लोका-' इत्यादिना षष्ठीनिषेधाद्वितीया । नराणाम् । अत्र नरशब्दो जन्तुमात्र- परः । पुरविजयी त्रिपुरान्तको रुद्रः । यद्वा पुरेषु लिङ्गशरीरेषु विजयवान्प्रका शमानः पुरुषो रुद्रः । यद्वा पुराणां विजयोऽस्यास्तीति पुरापुरादिवर्ति साक्षाचै- तन्यं विश्वेश्वरशब्दवाच्यः । करुणाविधेयचेताः करुणायाः परदुःखप्रहाणेच्छाया विधेयमधीनं चेतश्चित्तं यस्य सः कथयत्युपदिशति । भगवान् । भगशव्दे- नान्तादिवर्णलोपाभ्यां भवयोगौ विवक्षितौ । भशब्देन भवः । गशब्देन योगः | एवं च सति भगौ हेयत्वेन देयत्वेन च यस्य स्त इति भगवान् । भवं निय योगं ददाति स भगवानित्यर्थः । तथा च अथर्वशिखोपनिषदि – 'अथ कस्मादु- च्यते भगवानिति यस्मादुच्चार्यमाण एको रुद्रो भवं निहत्य योगं ददाति तस्मा- दुच्यते भगवानिति’ । इह काश्यामन्तकाले मुमूर्षावस्थायां भवभयकातरतारकं भवः संसारस्तस्माद्भयम् । जन्ममरणाभ्यां भीतिरित्यर्थः । तेन कातरः कान्दिशी- कस्तस्य लोकस्य तारकं तरणहेतुः प्रबोधः । अन्वर्थसंज्ञेयम् । प्रवुध्यतेऽनेन ब्रह्मस्व- रूपमिति प्रबोधस्तम् । अत्रेत्थं पदयोजना | इह काइयां करुणाविधेयचेता भगवान्पुरविजयी परमं पदमविदुषां नराणां प्रबोधं भवभयकातरतारकमन्त- काले कथयति । तथा चाथर्वणी श्रुतिः– मुमूर्खोदक्षिणे कर्णे यस्य कस्यापि वा स्वयम् । उपदेक्ष्यसि तं मन्त्रं स मुक्तो भविता शिवः ॥' इति । श्रीरामवाक्यमेतत् । स्मृतिरपि—‘मुमूर्षोर्मणिकर्ण्यन्तरर्धोदकनिवासिनः । अहं दिशामि ते मन्त्रं तारकं ब्रह्मसंज्ञकम् ॥' इति । तथा काशीखण्डे पञ्चमाध्यायेऽपि – 'सहोवाच जा- बालिमुनिस्त्वसिरिला मता । वरणा पिङ्गलानाडी तदन्तरविमुक्तकम् ॥ सा सुषुम्ना परा नाडीत्येवं वाराणसी त्वसौ । तदत्रोत्क्रमणे सर्वजन्तूनां हि मृतौ जना । अशक्यप्रतीकारत्वे कारणमाह - यतः – परममिति । इह वाराणस्यां पुर- विजयी श्रीमहादेवः भगवान् पड्गुणैश्चर्यसंपन्नो नराणां जीवानामन्तकाले प्राणोत्क्र- मणसमये भवः संसारस्तस्माद्भयं तेन कातरा भीतास्तांस्तारयतीति तारकः तं प्रबोधं ब्रह्मैकत्वलक्षणं कथयति प्रकाशयति । कथंभूतानां नराणाम् । परमं पदं ध्येय- स्थानमविदुषाम् । यद्वा परमं ब्रह्म पद्यते प्राप्यते तत्पदं ब्रह्मप्रातिस्थानमविदुषामजा- नताम् । कीदृशो महादेवः | करुणया विधेयं प्रवर्तनीयं चेतो यस्य सः ॥ १३ ॥~~ -