पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् अरे क इव वासवः कथय कोऽत्र पद्मोद्भवो वद प्रभवभूमयो जगति का मुनीनामपि । अवेहि तपसो बलं मम पुरन्दराणां शतं शतं च परमेष्ठिनां पततु वा मुनीनां शतम् ॥ ११ ॥ दम्भः – ( विलोक्य | सानन्दम् ।) अये, आर्यः पितामहोऽस्माक- महंकारः । आर्य, दम्भो लोभात्मजोऽहं भो अभिवादये । – co 2 अहंकार : - वत्स, आयुष्मान्भव | बालः खल्वसि मया द्वा- पारान्ते दृष्टः । संप्रति चिरकालविप्रकर्षाद्वार्धक्यग्रस्ततया च न स- म्यक्प्रत्यभिजानामि । अथ त्वत्कुमारस्यानृतस्य कुशलम् ? । क्यङ् । ‘विन्मतोर्लुक्’ इति लुक् ॥ – अरे क इवेत्यादि । अरे दम्भ, व्र- ह्मणः संभावितोऽहमिति वदसि सोऽपि ब्रह्मा कोनु वद । वासवो ऋषिसङ्घजुष्टः क इव । मुनीनां प्रभवभूमयो जन्मस्थानानि । वसिष्ठादीनामुत्पत्त्यादीनीति ध्वनिः । काः कीदृशीर्वाद । तृणीकृतब्रह्मपुरंदरस्य मम पुरतः के वा भवादृशाः कीटाः सन्ति । मम तपसो बलमवेहि । येन तपसो बलेन तव पुरतः पुरंदराणां शतं, परमेष्टिनां शतं, मुनीनां शतं पततु स्थानाच्यवताम् | संप्रश्ने लोट् । शत- मिति बहुसंख्योपलक्षणम् । असंख्याकान्पुरन्दरादीन्निर्मातुं पातयितुं वा शक्तस्य मम पुरो ब्रह्मणा संभावित इति किमेवं गर्वायसे ॥ ११ ॥ विलोक्य सान- न्दमित्यादि । अये इति संबोधनम् । लोभात्मज इति । लोभमूलो दम्भ इत्यर्थः । द्वापारान्ते कलियुगादावित्यर्थः । अथेति प्रश्ने । यद्यपि प्रमादालस्यवि- पुनर्मानुपाणामिति व्यज्यते ॥ १० ॥ मत्तपोविजृम्भितमिदमित्याहाहुंकारः – अरे क इति । अरे इति नीचसंबोधने । वासवः शतऋतुः क इव । न कोपीत्यर्थः । अहल्यागामित्वादिति ध्वनितम् । अत्र जगति पद्मोद्भवो ब्रह्मा क इति कथय । स्वक- न्यागामित्वादिति तात्पर्यम् । जगति ऋषीणामपि मन्त्रद्रष्टृणामपि प्रभवभूमय उत्प- तिभूमयः काः कथय । अनेन धीवरकन्यातो व्यासः, कुम्भसंभवोऽगस्त्यः, हरि- ण्या ऋष्यशृङ्गी, एवमादीन्युत्पत्तिस्थानानीति ध्वनितम् । ईंदृशं मम तपसः साम- र्थ्यमस्तीलाह–अवेहीति । मम तपसो बलमवेहि जानीहि । किं तत्तदाह । पुरंद- राणामिन्द्राणां, परमेष्ठिनां ब्रह्मणां, मुनीनां मननशीलानां प्रत्येकं शतं पततु । म त्तपःसामर्थ्यात्सर्वमाहंकारिकमिति भावः ॥ ११ ॥ अहंकार इति । वदतीति शेषः । चिरकालविप्रकर्षाद्वहुकालविलम्बान्न सम्यक् प्रत्यभिजानामि न परिचि- । १ 'ऋषीणामपि' इति पाठः । २ 'पितामहोऽयम्' इति पाठः ।