पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [द्वितीयोऽङ्क==== अहंकारः – (सक्रोधम् ।) आः पाप, तुरुष्कदेशं प्राप्ताः स्मः । यत्र श्रोत्रियानतिथीनासनपाद्यादिभिरपि गृहिणो नोपतिष्ठन्ति । दम्भः – (हस्तसंज्ञया समाश्वासयति ।) बटुः – एवमाराध्यपादा आज्ञापयन्ति । दूरदेशादागतस्यार्यस्य कुलशीलादिकं न सम्यगस्माकं वेदितव्यम् । अहंकारः – आः कथमस्माकमपि कुलशीलादिकमिदानीं प रीक्षितव्यम् । श्रूयताम् गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढापुरी भूरिश्रेष्ठकनाम धाम परमं तत्रोत्तमो नः पिता । तत्पुत्राश्च महाकुला न विदिताः कस्यात्र तेषामपि प्रज्ञाशीलविवेकधैर्यविनयाचारैरहं चोत्तमः ॥ ७ ॥ ( दम्भो बटुं पश्यति ।) - , बटुः – (ताम्रघटीं गृहीत्वा ।) भगवन् पादशौचं विधीयताम् । अहंकारः – (स्वगतम् ।) भवतु । कोऽत्र विरोधः । एवं क्रि- यते । (तथा कृत्वोपसर्पति ।) - स्पष्टम् ॥ -श्रूयतामित्यादि । गौडमिति । भूरिश्रेष्ठकनामेत्यन्वर्थसंज्ञेयम् । भूरयः श्रेष्टा महानुभावा यस्मिन्धामनीति । उत्तम उत्तमनामकः । महाकुला न विदिता इति । महाकुला न विदिताः । कस्येत्याक्षेपे । सर्वस्यापि विदिता एवेत्यर्थः । तेषामपीति निर्धारणे षष्ठी । अहं चोत्तमः । अन्वर्थसंज्ञे- मित्यारभ्य यत्र श्रोत्रियानित्यन्तं सुगमम् ॥ — यत्रेति । अतिथीननागतपूर्वान् । त- त्रापि श्रोत्रियान् गृहिणो गृहस्था नोपतिष्ठन्ति न संमुखमायान्ति । बटुर्दन्भशिष्यः । बदतीति शेषः ॥–गौडमिति । गौडं राष्ट्रं देश: अनुत्तमं न विद्यते उत्तमं यस्मा- त्तदनुत्तमम्, तत्रापि राढानगरी निरुपमा, तत्रापि राढापुर्या भूरिश्रेष्ठिक इति नाम यस्य तस्य परमं धान उत्कृष्टं गृहम् । अस्तीति शेषः । तत्र तस्मिन्धाम्नि नो- इस्माकं पिता उत्तमः उत्तमनामको वास्तीति शेष: । तत्पुत्रा महाकु- लाश्चात्र जगति कस्य न विदिताः । अपितु सर्वस्यैव विदिता इत्यर्थः । तेषां पुत्रा- णामपि मध्येऽहं प्रज्ञा बुद्धिः, शीलं स्वभावः, विवेको विचारः, धैर्य धीरता, वि- नयो नम्रता, आचारश्च एतैर्गुणैरुत्तमः । सर्वोत्कृष्ट इत्यर्थः ॥ ७ ॥ - दम्भ इत्या- , १ 'विदितम्' इति पाठः | २ 'श्रेष्ठक' इति पाठः ।