पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् मतिः — *अज्जउत्त, ¨णं खु अन्धकारलेहाए सहस्सरस्सिणो तिरक्कारो | जधा माआए तथा स्फुरन्तमहाप्पआससाअरस्स देवस्स वि अहिहवो । - राजा – प्रिये, अविचारसिद्धेयं वेश्या विलासिनीव माया अस- तोsपि भावानुपदर्शयन्ती परपुरुषं वञ्चयति । पश्ये

  • आर्यपुत्र, नूनमन्धकारलेखया सहस्ररश्मेस्तिरस्कारः । यथा मायया

तथा स्फुरन्महाप्रकाशसागरस्य देवसाप्य भिभवः । यतः कारणाद्विश्रुतः प्रसिद्धः तत्किं वक्तव्यमित्यभिप्रायः । लौकिकजनस्य स्त्रीसङ्गाद्धैर्यच्युतिर्भवति । अस्य परमेश्वरस्य मायारूपस्त्रीसङ्गादेव पुंस्त्वसिद्धिति किं वक्तव्यम् । धैर्यच्युतिरिति युक्तिर्नाम मुखसन्धेः पञ्चममङ्गम् । मत्या संश- यितार्थस्य निर्णयात् । तल्लक्षणम् – 'युक्तिः संशयितार्थस्य निर्णयः परिकीर्तितः ' इति ॥ २५ ॥ मतिरिति । आर्यपुत्र, नूनं अन्धकारलेखया सहस्ररश्मेस्तिर- स्कारः । तिरस्कारसदृश इत्यर्थः । यथा मायया तथा स्फुरन्महाप्रकाशसागरस्य देवस्याप्यभिभवः । ननु सूर्यस्य स्वभावत एव तमः सङ्गो नास्ति । ब्रह्मणस्त्ववि- द्यासङ्गोऽस्ति । बुद्धिगुहायामहमिति प्रतिभासात् । वस्तुतस्तु नास्तीत्यर्थः । अत्र प्राप्तिर्नाम मुखसन्धेः षष्टमङ्गम् । ब्रह्मस्वरूपेऽविद्यासङ्गस्यापि कल्पितत्वात्स्वरू- पतः सुखावाप्तिरूपत्वात् । तल्लक्षणम् – 'अर्थानामानुकूल्येन सुखाप्तिः प्राप्तिरि- ध्यते' इति ॥ - अविचारसिद्धेयमित्यादि । विचारदशायां ब्रह्मणो माया- सङ्गः सूर्यस्य तमःसङ्ग इव नास्ति । 'असङ्गो ह्ययं पुरुषः' इति श्रुतेः । तदेव दृ- टान्तेन द्रढयति – वेश्येत्यादि । विलासिनी कृत्रिमविलासवती । निन्दायां मतुप् । अतएव अविद्यमानानपि भावांस्तम्भप्रलयादीनुपदर्शयन्ती उप समीपे प्रकाशयन्ती । अयस्कान्तमणिवत्संनिधिमात्रेणेत्यर्थः । परपुरुषं विडम्बयति गाँयासङ्गादविद्यासंवन्धात्पुमान्परमात्मा स्वमात्मानमपीहेदानीं विस्मृतः | अपिस्तत्त- दर्थव्यतिरेकसमुच्चयार्थः ॥ २५ ॥ – अजानती मायाकार्यं पृच्छति–अज्ञेत्यादिना । [ मतिः – आर्यपुत्र, न खल्वन्धकारलेखया सहस्त्ररश्मेस्तिरस्कारः । यन्मायया तथा विस्फुरन्महाप्रकाशसागरस्य देवस्याभिभवः ।] मायाकार्य प्रकटयति—–—अविचारेति । अविचार सिद्धानिर्वचनीया सत्त्वेनासत्त्वेन वा विचारयितुमशक्या वारवि- लासिनीव वेश्येवासतो भावानबिंद्यमानकर्तृत्वभोक्तृत्वादीनुपदर्शयन्ती सती वञ्च- १ ‘ण खलु – तिरक्कारो । जं माआए –देवरस अहिवो' इति पाठः । २ 'वार- विलासिनीव' इति पाठः । ३ 'पश्य पश्य' इति पाठः ।