पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् ल ३८ तन्न युक्तमिहास्माकमवस्थातुम् । || १ || (इति निष्क्रान्तौ ।) विष्कम्भः | [ प्रथमोऽङ्कः -OTST: 1 (ततः प्रविशति राजा विवेको मतिश्र ।) राजा – (विचिन्त्य) प्रिये, श्रुतं त्वयास्य दुर्विनीतस्य काम- । — वत् । वाग्ग्मीत्यादिमहागुणसंपन्नः प्रावृतः शशाङ्क इव भाति । तुहिनं नामाविद्या | 'नीहारेण प्रावृता' इत्यादिश्रुतेः ॥ २३ ॥ इतः परमासूचितपात्रप्रवेशावसरदानं करोति – तन्न युक्तमित्यादिना । निष्कान्तौ रतिमन्मथौ ॥ - विष्कम्भ इति । विष्कम्भोऽयं मिश्रविष्कम्भः तल्लक्षणम्—–‘अङ्कशेषकथांशानां भूतानां भाविनामपि । संक्षेपेण समस्तानां वि- ष्कम्भः सूचनात्मकः ।। विरसोऽनुचितस्तत्र सूच्यः स्याद्वस्तुविस्तरः । शुद्धो मिश्रस्तु स द्वेधा मध्यपात्रप्रयोजितः ॥ शुद्धो भवति मिश्रस्तु मध्यनीचप्रयोजितः । प्र- धानादपरं मध्यं नायकादेरुदात्तवाक् ॥ नीचं स्यादनुदात्तोतिर्विना परिजनादि- कम् ॥' उदात्तवाक्संस्कृतवाक् । अनुदात्तवाक्प्राकृतवाक् ॥ ततः प्रविशती - त्यादि । ततः पात्रनिर्गमानन्तरं विष्कम्भान्ते सूचितं पात्रद्वयं प्रविशती- ति। विवेकशीलो विवेकी । बुद्धिमानिति या- अन्वर्थसंज्ञोऽयं वेक इति । मतिरिति आगामिविषया बुद्धिर्वृत्तिविशेषः । मतिर्नाम बुद्धिमती काचन कान्ता राज्ञी रा- जकार्यालोचनाही । अन्वर्थसंज्ञेयम् । एवमूह्यं सर्वत्र पात्रप्रवेशे | वेदान्त- पक्षे तु विवेको बिवेचनम् । तद्वदनिच्छमिति परिच्छेदः ? । वेदान्तानां ब्रह्मणि शक्तितात्पर्यावधारणम् । विवेको नाम श्रवणम् । मतिश्च तत्सहायकारिणी काचन बुद्धिवृत्तिः । असंभावनाविपरीतभावनयोर्निवर्तिका मननात्मिका । 'मन ज्ञाने इत्यस्माद्धातोः तिन् । ‘अनुनासिकस्य क्विझलोः क्विति' इत्यनुनासिकलोपः । स्त्रीप्रत्ययान्तत्वात्, श्रवणं प्रति मननस्याङ्गत्वाच्च पत्नीत्वव्यपदेशो मतेः । वेदान्ते- भ्योऽपरोक्षज्ञानात्मिकान्तःकरणवृत्तिरूपा विद्या प्रबोधश्रोत्सद्येत इति षष्ठाङ्के व क्ष्यते । अत उपनिषदर्थनिर्णायकत्वेन प्राधान्याद्राजत्वं विवेकस्य । तदुक्तं विव- रणाचार्यै: – 'द्रष्टव्य इति दर्शनमनूद्य फलोपकार्यङ्गाभ्यां मनननिदिध्यासनाम्यां सह श्रवणं नामाङ्गी विधीयते' इति । एतस्य राज्ञो विवेकस्य महामोहभूपतेः परि- पन्थित्वं तत्पात्रप्रवेशस॒मये निरूपयिष्यामः । - राजा विचिन्त्येति । आत्म- - इ॑व । मान एव धनं यस्य । कृशान्यङ्गानि यस्य । कया कइव । कान्त्या शशाङ्क इव । कीदृशः शशाङ्कः । सान्द्रेण निबिडेन तुहिनेन हिमेनान्तरित आच्छादितः ॥ २३ ॥ —तन्न युक्तमित्यनेन कामरत्योनिःप्रभावत्वं विवेकोदयमात्रेण प्रदर्शितम् ॥