पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] ] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् १५ नटी – *एसमि । आणवेद अय्यउत्तो को णिओओ अणुचि- ट्टियदु त्ति । सूत्रधारः— आर्ये, विदितमेव भवत्याः । अस्ति प्रत्यर्थिपृथ्वीपतिविपुलबलारण्यमूर्च्छत्प्रताप- ज्योतिर्ज्वालावलीढत्रिभुवनविवरो विश्वविश्रान्तकीर्तिः । जित्वा गोपालो भूमिपालान्प्रसभमसिलतामौत्रमित्रेण साम्राज्ये कीर्तिवर्मा नरपतितिलको येन भूयोऽभ्यषेचि ॥४॥

  • एषास्मि । आज्ञापयत्वार्यपुत्रः को नियोगोऽनुष्ठीयतामिति ।

इति वृद्धव्यवहारोपपत्तिरिति विज्ञेयम् ॥ – अय्यउत्त इति । 'स्त्रीविदूषक - बालानां शुद्राणां प्राकृतं वचः' इति नट्याः प्राकृतभाषायां प्राप्तायां 'घयर्यां जः इति सरेफस्य यकारस्य जकारे प्राप्ते कथं द्वित्तयकारः । उच्यते । 'प्रायेण प्राकृतस्थाने शौरसेनी विधीयते' इति वचनाच्छौरसेनी भाषा विहिता । तत्र 'य व्यः' इति सूत्रेण सरेफस्य यकारस्य द्वित्तयकार: । अत अय्यउत्त इति रूपसिद्धिः ॥ —आहेति शेषः । एवं सर्वत्रोह्यम् । आर्ये, विदितमेव भवत्याः । 'मतिबुद्धि -' इत्यादिना षष्टी ॥ - अस्तीत्यादि । अस्ति गोपालो नाम राजा । कीदृशः । प्रत्यर्थिपृथ्वीपतीनां शात्रवमहीभुजां विपुलवलान्येवारण्यानि तत्र मूर्च्छयामुवानं यत्प्रतापज्योतिः प्रतापाग्निस्तस्य ज्वालाभिः कीलाभिरवलीढा- न्याच्छादितानि त्रिभुवनस्य त्रैलोक्यस्य विवराण्यवकाशा यस्य स तथोक्तः । विश्वस्मिन्विश्रान्ता चरन्ती कीर्तिर्यस्य सः । स च पुनः कीदृशः । भूमिपालान्क- र्णादीनसिलतामात्रमित्रेण खङ्गैकसहायेन गोपालेन प्रसभं जित्वा कीर्तिवर्मा नरप- तितिलकः साम्राज्ये भूपः पुनरभ्यषेच्यभिषिक्तः । अत्रावलगितं नामामुखानं निरूपितम् । तल्लक्षणं तु - ‘अप्रस्तुतार्थकथनात्कियते सूचितं तु यत् । पात्रस्य पयत्वार्यपुत्रः को नियोगोऽनुष्ठीयतामिति ॥ -कथं विदितमित्याह –अस्तीति । गोपालोऽस्तीति योजना । कीदृशो गोपालः । प्रत्यर्थिनो रिपवो ये पृथिवीपतय- स्तेषां विपुलं बहलं बलं सैन्यं तदेवारण्यं तस्मिन्मूर्च्छन्वृद्धिं प्राप्नुवन्यः प्रतापः स एव ज्योतिस्तस्य ज्वालयावलीढमाक्रमितं त्रिभुवनविवरं येन सः । पुनः कीदृशः । विश्वस्मिन्विश्रान्ता विख्याता कीर्तिर्यस्य । स कः । येन कीर्तिवर्मा नरपतितिलको १ 'अज्जउत्तो' इति पाठः । मात्रेण' इति पाठः । २ ' भवत्या' इति तृतीयान्तः पाठः |