पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् २४५ माश्रित्य वत्सलभावरूपस्य रसत्वमुक्तमिति सर्वमनवद्यम् । अत्र रघुंवशादि- काव्येभ्यो नाटकस्य विशेषतो रसप्राधान्यात्कविभिरप्रमादिभिर्भवितव्यम् । प्रमादाख्यो दोषो द्विविधः । अव्युत्पत्तिनिबन्धनः, शक्तिनिबन्धनश्चेति । 'अव्यु- त्पत्तिकृतो दोषः स झटित्यवभासते । प्रबन्धमुक्तके वापि रसादीन्बोद्धुमिच्छता ॥ यत्नः कार्यः सुकविना परितो रोधिनामिति' । अत्रैतदुपसंहारनाटकविषये प्रतिभा- वतापि सावधानमा सूक्ष्मेक्षिकया भवितव्यमित्यास्तां तावत् ॥ शुभमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु शान्ति सर्वत्र जनः सुखी भवतु ॥ पाशाङ्कुशैक्षवशरासनपुष्पवाण- माणिक्य वेणुरमणीय करारविन्दे । सौभाग्यसीनि तरले तमसः परस्मि- नापाटले महसि मज्जतु मानसं मे ॥ यशस्करे कर्मणि मित्रसङ्ग्रहे प्रियासु नारीषु धनेषु बन्धुषु । ऋतौ विवाहे व्यसने रिपुक्षये धनक्षयेऽष्टासु न गण्यते बुधैः ॥ इति श्रीमद्राजाधिराजपरमेश्वरश्रीमत्प्रतापश्रीकृष्णरायमहासा- म्राज्यधुरन्धरधीसात्वतिम्मदण्डनायकभागिनेयनाण्डिल्लगो- पमन्त्रिशेखर विचरचितायां प्रबोधचन्द्रोदयव्याख्यायां चन्द्रिकाख्यायां षष्ठोऽङ्कः समाप्तः ॥ ६ ॥ प्रसादात्सर्वं प्राप्यत इति भावः ॥ ३३ ॥ अङ्कसमाप्तिं द्योतयति — इति निष्क्रान्ता: सर्वे इति । अङ्कसमाप्तौ सर्वेषां निष्क्रमणमित्यर्थः ॥ सप्राकृतं संस्कृतमत्र किंचियाख्याय तात्पर्यमवर्णिं किंचित् । तत्राप्यशुद्धं यदि किंचिदस्ति तच्छोधनीयं विबुधैर्न मूखः ॥ इति श्रीमद्भट्टविनायकात्मजदीक्षितरामदासविरचिते प्रकाशाख्ये प्रबोधचन्द्रो- दयनाटकव्याख्याने जीवन्मुक्तिनिरूपणं नाम षष्ठोऽङ्कः समाप्तः ॥ ६ ॥ २२