पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् २३३ - उपनिषत् – (सकोपमिव ) को नामात्मानमजानन्तमन्धमिव प्र- त्युत्तरं दास्यति । C पुरुष:- (सहर्षम् ) कथमहमात्मा पुरुषः परमेश्वरः । उपनिषत् – एवमेतत् । तथाहि— असौ त्वदन्यो न सनातनः पुमान् भवान्न देवात्पुरुषोत्तमात्परः । स ऐष भिन्नस्त्वदनादिमा द्विधेव बिम्बं सलिले विवखतः ॥ २५ ॥ - । मजानन्तं प्रत्युत्तरं को वा दास्यति । विपरीतोऽयं प्रश्नः । कथमात्मा परमेश्वर इति वक्तव्ये कोऽयमीश्वरो नामेति विरुद्धोक्तिः । अनेनोपनिषदामतिशयप्रीत्या पुरुषस्य वहुमानप्रतीतेर्भाषाख्यं निर्वहणसन्धेर्दशममङ्गम् । तदुक्तम् – 'बहुमा नादिसंप्राप्तिर्भाषितं परिकीर्तितं' इति । कथमात्मा परमेश्वर इति संसारित्वाविरुद्ध संसर्गादिति भावः ॥ – असौ त्वदन्य इति । असौ सनातनः पुमान्परमेश्व- रस्त्वदन्यो न भवति । भवांश्च पुरुषोत्तमाद्देवात्परोऽन्यो न भवति । त्वत्त्वत्तः स- काशादनादिमायया स एष भिन्नः प्रतिभाति । यथा सलिल उपाधौ सति वि वस्वतो विम्बप्रतिबिम्बयोरैक्यमेवम् ॥ २५ ॥ भगवत्योपनिषदा सम्यगुक्तमप्यर्थ रूपं वर्णयितुं शक्यत इत्याह – को नामेति । को नाम जनः आत्मानं स्वस्वरूपम- जानन्तं प्रति उत्तरं दास्यति । न कोऽपीत्यर्थः । अन्धमिवेति दृष्टान्तः । केनचिद- न्धेन भगवत्स्वरूपं मम लोचनगोचरं करिष्यसीति पृष्टेन यथान्धं कोऽप्युत्तरयति तथे- त्यर्थः । स्वरूपरूपाभेदमुपपादयति — असाविति । अंसावपरोक्षः पुमान्पुरुषः ‘यत्सा- क्षादपरोक्षात्' इति श्रुतेः । त्वदन्यो न त्वत्तोऽन्यः भिन्नो न भवतीति शेष: । 'उद- रमन्तरं कुरुते । अथ तस्य भयं भवति' इति श्रुतेः । भवान्पुरुषोत्तमाद्देवात्परमात्मनः स्वप्रकाशात् 'उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः' इति स्मृतेः परोऽन्यो न । 'तत्त्वमसि' इति श्रुतेः । कीदृशः पुमान् । सनातनोऽविनाशी । ननु बाधितमर्थं वे- दोऽपि कथं बोधयेत् । ‘सूर्यो यूप:' 'यजमानः प्रस्तरः' इत्यादिवत् । किंच प्रत्यक्ष- परिगृह्यमाणे भेदे कथं स्वरूपाद्वैतं प्रतिपाद्यत इत्याशक्य भेदस्त्वन्यकृतो न वास्तव इत्याह — स एवेति । स एवेश्वराभिन्न एव त्वमनादिमाययानाद्यविद्यया भिन्नो भेदं गतः । नन्वाविद्यकेऽपि भेदे सति कथमहमीश्वरो भवेयमित्याशङ्कय मिथ्याभूतो भेदः पारोमा- थिंकमभेदं न विरोद्धुं शक्नोतीत्याह । सलिले जले विवखतः सूर्यस्य बिम्वं मण्डल द्विवेव द्विप्रकारमिव । तथोक्तम् 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा १ ' स एव भिन्नस्त्वमनादि' इति पाठः । २१