पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् २३१ उपनिषत् – ततोऽहं सत्वरतरं परिक्रम्य दण्डकारण्यं प्रविष्टा । ततो मन्दारशैलोपकल्पितस्य मधुसूदनायतनस्य नातिदूरे- बाहोर्भग्ना दलितमणयः श्रेणयः कङ्कणानां चूडारत्नग्रहनिकृतिभिर्दूषितः केशपाशः । इत्याद्यवस्था मम संजाता । ६] पुरुषः ततस्ततः । - उपनिषत् — ततो देवायतनान्निर्गत्य गदापाणिभिः पुरुषैरतिनि- र्दयं ताब्यमानास्ता दिगन्तमतिक्रान्ताः सर्वाः । राजा- (सहर्षम्) न खलु भवतीमतिक्रामतो भगवान् विश्व- साक्षी क्षमते । पुरुषः - ततस्ततः । उपनिषत् - छिन्ना मुक्तावलिरपहृतं त्रस्तमशाहुकूलं भीता गीताश्रममथ गलन्नूपुराहं प्रविष्टा ॥ २४ ॥ उपनिषदित्यन्तं सुगमम् । बाहोर्मन्ना इत्यादिश्लोके व्याख्यातं प्राक् । ततो देवायतनेत्यादि । गदापाणिभिर्विष्वक्सेनादिभिः । तास्तर्कविद्याः । अत्र पर- वादिनिर्गमनेन दुःखनिवृत्तेः प्रतिपादनात्समयो नामाष्टममङ्गं स निर्वहणसन्धेः समयः । ‘समयो दुःखनिर्गमः' इति । सहर्षमित्यारभ्य उपनिषदित्यन्तं सुगमम् । -भीतेति । बाहोर्भग्ना इत्यादिश्लोकस्य चतुर्थचरणः । इदं भयजनितधावन- वशान्नूपुराणां गलनमित्यर्थः । वेदान्तमतेऽयमाशयः । सर्व एव भगवद्गीतापा- टका उपनिषत्सु नाधीतिनः । अतश्च तस्मिन्प्रदेशे गीतारूपेणाहं वर्ते ॥ २४ ॥ परिक्रम्य निर्गत्य मन्दरशैलस्य मन्दरपर्वतस्योप समीपे कल्पितस्य निर्मितस्य नातिदूरे निकटे बाहुभङ्गाद्यवस्था मम संजातेत्यग्रेतनेनान्वयः । बाहोरित्येतत् प्रथमं व्याख्यानम् । देवतायतनाद्देवतागृहात्पुरुषैर्गदापाणिभिरतिक्रान्ता । अतिक्रन्योलङ्घ्य दिगन्तं गताः सर्वा विद्याः। अतिक्रामतोऽभिभवतः । स्वाध्यस्तं विश्वं तादात्म्य संबन्धात्साक्षादीक्षत इति वि श्वसाक्षी क्षमते । सोढुं शक्नोतीत्यर्थः । प्राक्तनस्य बाह्वोर्गना इत्यस्य पदस्यान्यदुत्त- रार्ध पठति — छिन्नेति । मुक्तावलिर्मुक्ताहारस्त्रोटितोऽङ्गात्स्रस्तमधः पतितं दुकूलमपहृतं बलाद् गृहीतम् । अथानन्तरमहं भीता सती गीताश्रमं प्रविष्टा । कीदृश्यहम् । ग