पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ प्रवोधचन्द्रोदयम् - एकस्तयोः पिप्पलमत्ति पक्क- मन्यस्त्वनश्नन्नभिचाकशीति ॥ २० ॥ - पुरुषः - ततस्ततः । उपनिषत् —ततोऽहं मीमांसामभिमन्य प्रस्थिता ।

[षष्ठोऽङ्कः - पुरुषः - ततस्ततः । उपनिषत् — ततो मया बहुभिः शिष्यैरुपास्यमानास्तर्कविद्या अवलोकिताः । - काचिद्विश्वविशेषकल्पनपरा न्यायैः परा तन्वती बादं सच्छलजातिनिग्रहमयैर्जल्पं वितण्डामपि । अस्यार्थः । द्वा द्वौ सुपर्णा सुपण पक्षिणौ जीवात्मपरमात्मानौ । 'सुपां सुलुक् इत्यादिना द्विवचनस्यौकारस्याकारः । द्वौ पक्षिणौ सयुजा सयुजौ सखाया सखायौ समानं वृक्षं मुक्तिपर्यन्तमेकमेव वृक्षरूपं देहमधिष्ठाय सयुजौ मिलितौं सखायौ परस्परमविरुद्धौ वर्तेते इत्यर्थः । तयोर्जीवपरमात्मनोर्मध्ये एको जीवात्मा खादु फलं ऐहिकं शब्दादिकं, आमुष्मिकं स्वर्गादिकं स्वादु मधुरं पिप्पलं फलमत्त्यनुभवति । अन्यः परमात्मा तत्फलमनश्नन्नननुभवपराङ्मुखः सन् अ मिचाकशीति प्रकाशत इति श्रुत्यर्थः । अनेनैव श्लोकार्थो व्याख्यातः । भट्टाचार्यस्य किंचिज्झत्वं जीवात्मनोऽन्यः परमात्मा वेदान्तशास्त्रेषु प्रतिपाद्यो विद्यत एवेति एतावन्मात्र एव मतिविश्रान्तेः जीवपरयोरैक्यपर्यन्तमविश्रान्ते- रतो जीवपरैक्यज्ञानं गुरुमुखादेवाधिगन्तव्यमिति कौमारिलस्योपदेशः कृतः । अत एव कौमारिलमतनिरासोऽर्थसिद्ध इति ध्येयम् । एतत्सर्व साधुप्रज्ञोऽसीत्यनेन गम्यते ॥ २० ॥ ततोऽहमित्यादि । अभिमन्य संबोध्य । साधयामीत्यु - क्त्वेत्यर्थः । तत इत्यारभ्य विलोकिता इत्यन्तं सुगमम् । तर्कविद्या वैशेषिकन्याय- साङ्ख्याः ॥ – काचिदिति । काचिद्वैशेषिकविद्या द्विलपरा। द्विवकल्पनं पाक- जादिप्रक्रियोपलक्षणम् । विशेषो नाम पञ्चमः पदार्थस्तरकल्पनपरा । परान्या गवन्तौ सखायौ परस्परानुकूलौ द्वौ जीवात्मपरमात्मानौ समानमेकं वृक्षं शरीरं परिषस्व- जाते आलिङ्ग्यतः स्वीकुर्वत इति यावत् । अनयोः कार्यभेदमाह—तयोर्मध्ये एको जीव: पक्कं पिप्पलं कर्मफलमत्ति भुङ्क्ते, अन्य ईश्वरोऽनश्नन्नभुञ्जानोऽभिचाकशीति । साक्षि- त्वेन पश्यतीत्यर्थः ॥ २० ॥ ततः तदनन्तरं मया बहुभिः शिष्यैरन्तेवासिमिरुपास्य- माना: सेव्यमाना न्यायविद्याः पातञ्जलन्यायकणादसांख्यनिर्मिताः शास्त्ररचनाः प्र तिपादयति —– काचिदिति । काचित् पतञ्जलिनिर्मिता विश्वस्माद्यो विशेषो जगतः