पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् – ततः कर्मकाण्डसहचरी मीमांसा मया दृष्टा- विभिद्य कर्माण्यधिकारभाञ्जि श्रुत्यादिभिश्चानुगता प्रमाणैः । अङ्गैर्विचित्रैरभियोजयन्ती प्राप्तोपदेशैरतिदेशकैश्च ॥ १८ ॥ - तत इत्यारभ्य मया दृष्टेयन्तं सुगमम् ॥ - विभिद्येति । कर्माण्यग्निष्टोमादीनि अधिकारभाञ्जि नित्यनैमित्तिककाम्याधिकारयुक्तानि विभिद्य भिन्नानि ज्ञापयित्वा श्रुत्यादिभिः श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यारूपैः षट्प्रमाणैः शेषत्वबोधकैर- नुगता। अत्र व्युत्पाद्यव्युत्पादकभावेन संबन्धः । प्राप्ता संगता । उपदेशैरतिदेशकैः ॥ खार्थे कः । विचित्रैः आरात्संनिपातभेदेन नानाविधैरङ्गैः सह वर्तमाना कर्मा- ण्यमियोजयन्त्यनुष्टापयन्ती दृष्टेत्यन्वयः । तदयमत्र निष्कर्षः । त्रिविधमङ्गजातं दृष्टार्थ, अदृष्टार्थ, उभयात्मकं च । यदृष्टार्थं जातिगुणकर्मद्रव्यात्मकं तत्र जातिगुणौ ‘पशुना यजेत’ ‘अरुणया क्रीणाति' इति क्रियासाधनत्वेन विनियुक्तौ तत्सा- धनद्रव्यावच्छेदेन दृष्टेनैवोपकारेण तस्य शेषभावमनुभवतः । कथं पुनद्रव्य- परिच्छेदात्क्रियासाधनत्वमिति चेत् विशिष्टद्रव्यस्य क्रियासाधनत्वात् तस्य च विशेषणाधीनप्रतिपत्तिवाद प्रतिपन्नस्य साधनभावासंभवात्तत्प्रत्युपासयोजीति- गुणयोस्तद्वारेण भवति क्रियासाधनत्वम् । गुणस्य हि साधनत्वं श्रुतं यथोक्तेन प्रकारेणोपपादयितुं तद्विशिष्टस्य क्रियासाधनत्वं कल्प्यते तदेव जातिगुणयोर्दृष्टा- र्थलम् | द्रव्यस्य तु साक्षादेव क्रियानिवृत्तिः । दृष्टमेव प्रयोजनं संयवनादिक- माचक्षते दृष्टार्थत्वं क्रियायाः । सा च द्वेधा । संनिपत्योपकारकरूपा प्रोक्षणादिः । आरादुपकारकरूपा प्रयाजादिः । सन्निपत्योपकारकारीणि दृष्टार्थानि कर्माणि स्वकारणानां कर्मादीनामुत्पत्ति प्राप्तिं विकृतिं संस्कारं कुर्वन्ति सन्ति सा- ध्यस्य प्रधानस्योपकुर्वन्ति । यथा संयवनं पुरोडाशपिण्डस्योत्पत्तिं, दोहनं च पयसः प्राप्ति, अवघातो ब्रीहीणां विकारम् । अदृष्टार्थं तु सन्निपातसंस्कारं कुर्वत् प्रधानोपकारि भवति । तदेवमुत्पत्त्यादिसाध्यभेदाच्चतुर्विधं भवति । तच्च कर्मादीनामन्यतमे कारके यथायथमुत्पत्त्यादिकं करोति । कर्मण्येव व्रतादि शिष्यैः लथादरैर्मन्दादरैः । स्वस्याभिलषित इष्टः । प्रस्थिता निर्गता | मीमांसास्वरूप- माह — विभज्येति । मीमांसा मया दृष्टेति पूर्वफक्किकास्थपदेष्वन्वयः श्लोके संबध्यते । कीदृशी मीमांसा । अधिकार कर्मफलभागित्वरूपः तं भजन्ते तानि ज्योतिष्टो- मादीनि कर्माणि विभज्य फलभेदात्कर्मभेदं प्रतिपाद्य अङ्गैः प्रयाजानुयाजादिभिविं- । ६] उपनिषत् १ 'विभज्य' इति पाठः । २० २२१