पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् कैः कैर्नाहं हतविधिवलादीहिता दुर्विदग्धै- सीकर्तुं सपदि दुरितैदूरसंस्थेऽविवेके ॥ ९ ॥ शान्तिः – सर्वमेतन्महामोहस्य दुर्विलसितम् । नात्र देवस्या- पराधः । तेन मोहेन मनः कामादिद्वारेण प्रबोधयता त्वत्तो दूरीकृतो विवेकः । एतदेव कुलस्त्रीणां नैसर्गिक शीलं यद्विपन्मग्नस्य खामिनः समयप्रतीक्षणमिति । तदेहि दर्शनप्रियालापेन संभावय देवम् | संप्रत्यपहता विद्विषः । संपूर्णास्ते मनोरथाः । ६] २११ वेदान्तव्यतिरिक्तशास्त्राणामपि मनननिदिध्यासनरूपमङ्गद्वयमङ्गीकृतं किंतु मनन- भेदमात्रं चेति तदलंकारभूतम् । उपक्रमोपसंहारात्मकं तात्पर्यलिङ्गमुत्सृज्य अन्यथाविचारः कङ्कणभङ्गः, जीवब्रह्मैक्यानुसन्धानरूपनिदिध्यासनव्यतिरेकेण अन्यथानिदिध्यासनस्याङ्गमणित्वमिति ध्येयम् । यद्यपि श्रवणविधिं प्रति मनन- निदिध्यासनयोरङ्गत्वं नोपनिषदस्तथाप्य भेदोपचारात् उपनिषदं प्रत्यङ्गत्वं विधिद्व- यस्येति । बाह्वोरित्युपनिषद्विशेषणस्योक्तेः सामञ्जस्यमिति ध्येयम् । अत्र चूडा- रत्नमात्मस्वरूपं तस्य ग्रहो ग्रहणं स्वीकारः तत्र निक्कृतिभिः विपरीतप्रकारैः के- शपाशो वेदान्तभागो दूषितः । तत्र हेतुमाह – हतविधिबलादिति । द्रष्टव्य इति दर्शन विधिबलाद्दर्शन विधेहतकत्वं परं व्यामोहकत्वेन । तच्च तव्यप्रत्यया- न्ततयां । अतो ज्ञानविधिशेषतया दासी चिकीर्षितेत्यर्थः । दासी कर्तुमिति च्चिप्रत्ययान्तः । दूरसंस्थेऽविवेके अत्र अविवेके इति छेदः । अविवेकत्वाद- मीमांसकत्वादिति भावः ॥ ९ ॥ सर्वमेतदित्यादि मनोरथा इत्यन्तं सुगमम् । अत्र परिभाषाख्यं निर्वहणसन्धेः पञ्चममङ्गम् । उपनिषद्देवी श्रद्धयोर्मियोजल्पनात् । बाह्वोर्हस्तयोर्दलिताश्चूर्णिता मणयो यासां ताः कङ्कणानां हस्तभूषणानां श्रेणयः पङ्क्यो भग्नाः। चूडारलस्य मस्तकमणेर्ब्रहणं तेन निकृतयो न्यक्काराः । केश- ग्रहणकर्षणरूपास्तिरस्कारा इति यावत् । ताभिर्दूषितस्त्रुटितः केशपाशो धम्मिलः । एवं सति इदं फलितम् । विवेकं विना न्यायमात्रदग्धचित्तैरुपक्रमोपसंहाराभ्यां श्रुतितात्पर्यानभिज्ञैरुपनिषद उपप्लाव्यन्त एव ॥ ९ ॥ दुर्विलसितं दुश्चेष्टितम् । अप रावाभावं व्यनक्ति – तेन हीति । तेन हि । हिरवधारणे । महामोहेनैव कामादि- द्वारेण मनः प्रबोधयता विवेको दूरीकृत इति योजना | नैसर्गिकं निरुपाधिकम् । स्वाभाविकमिति यावत् । समयप्रतीक्षणमभ्युदयकालावेक्षणम् । कुलटास्त्वन्यमाश्रयन्ते । स्वामिनो विपदमालोक्य न समयं प्रतीक्षन्त इति भावः । संभावय संमानय । अ-