पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् प्रवेशकः । (ततः प्रविशति पुरुषः ।) पुरुषः – (विचिन्त्य । सहर्षम् ) अहो माहात्म्यं देव्या विष्णुभक्तेः । यत्प्रसादान्मया, तीर्णाः क्लेशमहोर्मयः परिहृता भीमा ममत्वभ्रमाः शान्ता मित्रकलत्रबन्धुमकरग्राहग्रहग्रन्थयः । क्रोधौर्वाग्निरपाकृतो विघटितास्तृष्णालतो विस्तराः पारेतीरमवाप्तकल्पमधुना संसारवारांनिधेः ॥ ८ ॥ २०९ - प्रयाता । अहमित्यादिना शान्तिः स्वागमन प्रयोजनमाह । स्वनियोगमिति स्वयो- रुभयोर्नियोगस्तम् । प्रवेशकस्वरूपं व्याख्यातं प्राक् । ततः प्रविशतीत्यादिना प्रवेश- केन पात्रप्रवेशः । पुरुष इत्यारभ्य मयेत्यन्तं सुगमम् ॥ – तीर्णा इति । क्लेशा अविद्यास्मितादयस्त एव महोर्मयः कल्लोलास्तीर्णाः उत्तीर्णाः । भीमा भयंकरा ममत्वभ्रमा ममतावर्ताः परिहृताः लडिताः । मित्राणि सुहृदः, कलत्राणि भार्याः, बन्धवः पुत्रभ्रातृपितृव्यमातुलादयस्त एव मकरा यादोविशेषाः, ग्राहाः, ग्रहाः तदितरजलचराः कुलीरादयस्त एव ग्रन्थयः । ग्रन्थिभूता ग्राहा इति यावत् । क्रोध एवौर्वाग्निर्वडवानलोऽपाकृत उल्लङ्घितः । विघटिता उन्मोचितास्तृष्णालता- विस्तराः तृष्णा अशनायापिपासादयस्ता एव लताविस्तराः । अत्र यद्यपि 'प्रथने वावशब्दे' इति शब्दप्रपञ्चे विस्तरशब्दो निष्पन्नस्तथाप्यन्त्र लक्षणया अर्थप्रपञ्चप- रत्वान्न दोषः । पारेतीरं परतटम् । 'पारावारे परार्वाची तीरे' इत्यमरः । अधुना संसार एव वारांनिधिः समुद्रः । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । संसारवारां- निधेरित्यत्र सावयवरूपकम् । अवाप्तकल्पम् । ईषदवाप्तमित्यर्थः । अनेन जी- तीर्णा इति । संसार एव वारां जलानां निधि: समुद्रस्तस्य पारे परपारे तीरं मया- धुना इदानीमवाप्तकल्पं प्राप्तप्रायम् । मयेति सर्वत्र योजनीयम् । अनेकानर्थव्याप्तस्य संसारनीरनिधेः कथं पारप्राप्तिरित्यत आह—तीर्णा: क्लेशमहोर्मय इति । क्लेशा अवि- द्यास्मितादयः पञ्च त एव महान्त ऊर्मयो लहर्यस्तीर्णाः । भीमास्त्रासहेतवः ममत्वमेव भ्रमा आवर्ताः परिहृता वञ्चिताः । मित्रं च सखा कलत्रं च स्त्री बन्धवश्च सुहृदस्त एवं मकरा गत्स्याः ग्राहा: शिशुमारास्तेषां ग्रहो ग्रहणं धारणं तत्पूर्विका: प्रस्तयो ग्रासाः शान्ताः प्रशमिताः । क्रोध एवौर्वाग्निर्वडवानलोऽपाकृतस्तिरस्कृतः । तृष्णैव लताग्रन्थयो विघटिता वियोजिताः । श्रीमद्भगवद्भक्तेर्न किमपि दुर्लभनिति भावः ॥८॥ १. 'ग्रहग्रस्तयः' इति पाठः । २. 'लतानन्धयः' इति पाठः । १९