पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः सकलसाम- - सूत्रधारः – अलमतिविस्तरेण । आदिष्टोऽस्मि न्तचक्रचूडामणिमरीचिमञ्जरीनीराजितचरणकमलेन बलवंदरिनि- ज्यते ॥' अथ प्रस्तावनां विवक्षुस्तदङ्गभूतयोः प्ररोचनामुखयोः प्रथमं प्ररोचनाङ्गं तावदाह - आदिष्टोऽस्मीत्यादि । 'निवेदनं प्रयोज्यस्य निर्देशं देशकालयोः । काव्यार्थसूचकैर्वर्णैः सभायाश्चानुरञ्जनम् ॥ कविकाव्यनटादीनां प्रशंसा च प्ररो- चना ||' आदिशब्देन वस्तुनायकयोर्ग्रहणम् । यद्यपि 'स्थापकस्तु सभां गत्वा नेपथ्याभिमुखो भवेत् । स्थापयेन्नाट्यवस्तूनि पात्राणां सूचयेदपि ॥' तथाप्यत्र नेपथ्याभिमुखं न विधीयते । परंतु पात्राणां प्रवेशार्थी कथावाक्यश्रवणं विधी- यते । श्रवणं वाभिमुख्येनानाभिमुख्येन वा सिध्यतीत्याशयेन तदुपेक्षितम् । अभिमुख एव आभिमुख्यं विधीयते । ते आभिमुख्यमित्यन्वर्थसंज्ञाकरणसाम- र्थ्यात्तदुत्तरत्र स्मार्येते पात्रप्रवेशनार्थं 'सूत्रधारो नहीं ब्रूते' इति वचनादत्रैवा- भिमुख्यकथनं न्याय्यमिति । पात्रप्रवेशसमय एव वक्ष्यते । नेपथ्याभिमुखमव लोक्येत्यादिष्ट आज्ञापितोऽस्मि गोपालेनेत्यन्वयः । आदिष्ट इत्यनेन प्रयोज्यनि- वेदनं नाम प्ररोचनाझं निरूपितम् । एतन्नाटकं लयाभिनेतव्यमित्यादेशाख्यापनं प्रयोज्य निवेदनम् । सकलेत्यादि । सकलाः समस्ताः सामन्ताः प्रत्यन्तभूपाला- स्तेषां चक्राणि समूहास्तेषां चूडासु मुकुटेषु मणीनां पद्मरागादीनां मरीचिमञ्ज- रीभिः किरणसमूहैर्नाराजितं नीराजनवत्कृतं चरणकमलं यस्य तेन । नीराजि तमित्यत्र घञन्तनीराजशब्दान्मतुवन्तात् 'तत्करोति - ' इति णिचि कृते वि- न्मतोर्लुक्' इति लुकि कृते 'णाविष्टवत्प्रातिपदिकस्य' इतीष्ठवद्भावे ‘तुरिष्टेमेयः सु इति टिलोपे निष्टान्तं रूपम् । यद्वा नितरां राजनं नीराजः । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति दीर्घः । सोऽस्य संजातः । तारकादेराकृतिगणत्वादि- तच् । यद्वा नीराजतेः कर्मणि क्तः । अत्रातिशयोक्तिरलंकारः । चरण कमले मरीचिमञ्जरीणां नीराजनलासंवन्धेऽपि संबन्धकथनादसंबन्धेऽपि संबन्धनिव- न्धनातिशयोक्तिः । चरणकमले नेत्यत्रोपमालंकारो रूपकसावनप्रमाणाभावात् । अनयोः संसृष्टिस्तिलतन्दुलवदमिश्रणात् । मरीचिमञ्जरीणां नीराजनत्वेन परिण- मनाद्वैयधिकरण्येन परिणामालंकारः । अनयोः संदेहसंकरः । बलवदरी- त्यादि । बलवन्तो येऽरयः शत्रवस्तेषां निवहस्तस्य वक्षस्थलकपाटस्य पाटनेन गुणगणोपेतः सूत्रवारोऽभिधीयते ॥ इति ॥ - अलमिति । नान्दीपाठेनैव समयो न नेतव्य इति भावः ॥ — आदिष्टोऽस्मीति | आदिष्टोऽस्म्याज्ञप्तोऽस्मि गोपालेनेल्य- न्वयः । कीदृशेन गोपालेन । श्रीमता लक्ष्मीवता । लक्ष्मीवत आज्ञावश्यं विधे- १ 'अरिपुञ्जवक्ष' इति पाठः ।