पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ प्रबोधचन्द्रोदयम् [ षष्ठोऽङ्कः भो इहोपविश्यताम् । नात्र जन्ममृत्यू । अनुपाघिरमणीयो देशः । एष त्वामुपस्थितो विविधविलासलावण्यपुण्यमयो मङ्गलार्थव्यग्रपाणिः प्रणयपेशलो विद्याधरीजनः । तदेहि, यतोऽत्र -- कनकसिकैतिलस्थलाः स्रवन्तीः पृथुजघनाः कमलानना वरोरूँः । मरकतदलकोमला बनाली- भेज निजपुण्यचिंतांश्च सर्वभोगान् ॥ ६ ॥ शान्तिः - ततस्ततः । C उपच्छन्द्यते विप्रलभ्यते । विप्रलम्भप्रकारमाह - भो इहोपविश्यतामिति । नात्रेति । अत्र मेरुस्थलेषु जन्म मृत्युश्च नास्तीत्यर्थः । अनुपाधिनोपाधिराहित्येन स्वाभाव्येनौं रमणीयो भोगयोग्योऽयं देश इति । अत्र च एष लामुपस्थितो विद्याध रीजन इलन्वयः ॥– कनकसिकतिलेत्यादि । कनकसिकता येषां सन्तीति कनकतिकतिलानि । 'देशे लुबिलचौ च' इतीलच् | कनकसिकतिलानि स्थलानि पुलिनानि यासां ताः सवन्तीनंदीः पृथुजघना वरोरूः कमलाननाः विद्याधरीः मरकतदलकोमलाः मरकतदलवन्माणिक्यवत्कोमला वनावलीर्भजेत्यन्वयः । किंच निजपुण्यचितान्मानसोपासनाजनितपुण्यसंपादितान्मनोरथोपस्थितानपि भजेल्य- ताभिरुपच्छन्द्यते प्रलोभ्यते । प्रलोभनमेव दर्शयति — भो इहेति । अनुपाधिरमणीयः सहजसुन्दरत्वामुपस्थित इति । विद्याधरीजनस्त्वामुपस्थितः प्राप्तः । कीदृशो विद्या- धरीजनः । विविधा नानाप्रकाराश्च ते विलासा विभ्रमाश्च नेत्रकरचरणामहाव- भावललितचेष्टाभेदाः, लावण्यं च वस्त्रकनकमौक्तिकाद्याभरणानुलेपनपत्रभङ्गिरचना- रूपं तदेव पुण्यम् । कार्ये कारणोपचारः । तन्मयस्तत्प्रधानः । पुनः दृशो विद्याधरीजनः । दध्यादर्शादिमङ्गलार्थं व्यग्राः पाणयो यस्य सः कीदृशो विद्याधरीजनः । प्रणये प्रीतौ कर्तव्यायां पेशल: चतुरः ॥ कनकेति । कनकस्य सुवर्णस्य सिकता बालुका तद्युक्तानि सुस्थलानि यासु ताः सवन्तीनंदीः भज सेवय । पृथुजघनाः स्थूलनितम्बाः कमलबदनाः पद्मवदना: घना निबिडा ऊरवो यासां ताः भज सेवय । मरकतो रलविशेषस्तस्य दलानि तद्वत्को- मला वनालीर्वनपङ्कीर्भज । निजेन स्वेन पुण्येन जितानजितान्विषयानन्दांश्च की- । पुनः २. 'घनोरू : ' इति पाठः । ३. 'पुण्यजि. १. 'सिकतसुस्थलीः' इति पाठः । तांश्च' इति पाठः.