पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ प्रबोधचन्द्रोदयम् जानासि किंचिद्भगवत्युपायं [पञ्चमोऽङ्कः ममत्वपाशस्य यतो विमोक्षः ॥ २६ ॥ - सरस्वती — वत्स, भावानामनित्यताभावनमेव तावन्ममतोच्छेदस्य प्रथमोऽभ्युपायः । तथाहि — न कति पितरो दाराः पुत्राः पितृव्यपितामहा महति वितते संसारेऽस्मिन्गतास्तव कोटयः । तदिह सुहृदां विद्युत्पातोज्ज्वलान्क्षणसंगमान् सपदि हृदये भूयो भूयो निवेश्य सुखी भव ॥ २७ ॥ स्नेह एव सूत्रं रज्जुस्तेन ग्रथितस्य वद्धस्य जन्तोः भगवति, ममत्वपाशस्य यतो मोक्षस्तं जानासि किम् । यतः उपायाद्विमोक्षो भविष्यति तमुपायं किं न जानासीत्यर्थः ॥ २६ ॥ वत्सेत्यादिकोटय एवेत्यन्तं सुगमम् । तदिहेत्यादि । सुहृदां शोभनं हृत् हृदयं येषां तेषां पुत्रमित्रादीनाम् । 'सुहृद्दुहृदौ मित्रामित्रयोः इति निपातनात्साधुः । विद्युत्पातोज्ज्वलान्सौदामिन्युदयसन्निभान् । क्षणसंगमान् क्षणिकान्वयान् सततं हृदये निवेश्य | आलोच्येत्यर्थः । हृदयेऽन्तःकरणे निवे- स्याध्यस्य । अन्तःकर्णधर्मतया ज्ञात्वा तत्रैव विलोप्येति यावत् । सपदि सद्यः भूयो जींवस्य ममत्वरूपो यः पाशस्तस्य यत उपायाद्विमोक्षस्त्यागस्तमुपायं हे भगवति, त्यं किंचिज्जानासि तर्हि वदेति शेष: । कीदृशस्य ममत्वपाशस्य । निरन्तरमनवरतं यो- ऽभ्यासस्तेन दृढीकृतस्य । पुनः कीदृशस्य ममत्वपाशस्य | स्नेह्वेन सह वर्तन्त इति सस्नेहा अन्तःकरणवृत्तयस्ता एव सूत्राणि तैथितस्य गुम्फितस्य ॥ २६ ॥ अनित्यता- भावनमेवानित्यतावधारणमेव प्रथमोऽम्युपायो मुख्यो हेतुः ॥ - न कतीति । यद्यस्मा- द्धेतो: तवास्मिन्महति वितते विस्तीर्णे संसारे कोटयः कोटिसंख्याः पित्रादयो न गताः किं । किंतु गता एव । दाराः स्त्रियः, पुत्राः, पितृव्याः पितृभ्रातरः, पितामहाश्च ते अपि किं न गताः । किंतु गता एवेति संबन्धः । तस्माद्धेतोरिह जगति सुहृदां बन्धूनां विद्युत्पातबदुज्ज्वलान्दारुणतया प्रकाशमानान् क्षणं क्षणमात्रमेव संगमो यैस्तान्हृदयेऽन्तःकरणे भूयो भूयः पुनः पुननिवेश्यावधार्य सपदि तत्क्षणमेव सुखी भव । मन्दबुद्धयः पितृप्रभृतिषु व्यर्थमुदरताडनं वृथा संतापमनुभवन्ति । विदुषां पुनरेवमसारे संसारेऽत्यन्तकटुपरिणतौ ज्ञाते वैराग्यमेवाविर्भवतीति भावः ॥ २७ ॥