पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [पञ्चमोऽङ्कः अपि च, || श्रियो ज्वालालोला विषयजरसाः प्रान्तविरसा विपद्रेहं देहं महदपि धनं भूरि निधनम् । बृहच्छोको लोकः सततमबलानर्थबहुला तथाप्यस्मिन्घोरे पथि बत रता नात्मनि रताः ॥ २४ ॥ सरस्वती–वत्स, एतद्वैराग्यं त्वामुपस्थितम् । तदेतत्संभावय । मनः— क्वासि पुत्रक, वैराग्यम् – (उपसय 1) अहं भो अभिवादये । स्वान् न कोऽपि वारयितुं शक्त इति भावः ॥ २३ ॥ अपि च, श्रिय इति । श्रियो ज्वालालोला दीपज्वालावच्चञ्चलाः | विषयजरसाः विषयैकसुखानि प्रान्तदुःखदाः । देहं शरीरं विपद्नेहमापदां गृहं दुःखानुभवजननम् । महदपि धनं भूर्यधिकं निधनं मरणहेतुत्वान्मरणमित्युच्यते । धनस्य निधनत्वं चौरादीनामपहरणादिना । लोकः पुत्रमित्रकलत्रादिः बृहच्छोको महाशोकहेतुः । सततमत्यर्थमबला वनिता अनर्थव- हुला सर्वानर्थहेतुः । तथाप्येवं ज्ञावाप्यस्मिन्धोरे भयंकरे पथि संसारमार्गे रता नरा इत्यन्वयः । आत्मनि रतास्तु न भवन्तीति । वत इति खेदे ॥ २४ ॥ मेव गृध्रादिनिवारणे हेतुरित्यर्थः । कीदृशं वपुः । नवं नीलं यन्नीरजं नीलोत्पलं तस्य दलं छदस्तस्योपान्तोऽयभागस्तद्वदतिसूक्ष्मम तिकोमलम् ॥ ३३ ॥ वैराग्यकार- णीभूतं शारीरं दोपं प्रदर्श्य शरीरोपकारकेषु दोषं प्रदर्शयति — श्रिय इति । श्रियो लक्ष्म्य: दोलान्दोलिका तद्वहोलाश्चञ्चलाः । विषयेभ्यो जाताः स्रगादिभ्य उत्पन्ना ये रसाः सुखविशेषास्ते प्रान्ते समाप्तौ विरसा विषादजनका: । 'रसो जलं रसो हपों रसः शृङ्गार इत्यपि' । देहं शरीरं विपदां विपत्तीनां गेहं गृहम् । महदपि वहपि धनं भूरि बहुप्रकारं निधनं मरणम् । उक्तं च चाणक्यनीतौ–‘अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये व्यये महृद्दुःखं कथमर्थाः सुखावहाः' इति । लोको जनः बृहच्छोकः बहु- शोकः । अवला स्त्री सततमनारतमनर्थः स्वरूपनिद्रारूपो बहुलोऽस्यां सा । तथोक्तं बिष्णुपुराणे– ‘अमेध्यपूर्णे कृमिराशिसंकुले स्वभावगन्धेऽप्यशुचौ च सद्रवे । कलेवरे मूत्रपुरीषभाजने रमन्ति मूढा विरमन्ति पण्डिताः' इति । तथाप्येवं सत्यपि घोरे भया- बहे पथि संसारे रता इति । बत | महत्कष्टमित्यर्थः । परं तु । आत्मनि न रताः नात्मविचारपरा इत्यर्थः । तथोक्तं हरिवंशे — 'अधस्ताच्छिद्रितं चर्म दुर्गन्धिपरिपूरितम् । मूत्रक्किन्नं च तस्यार्थे मा राजन्ब्राह्मणान्वधीः' इति ॥ २४ ॥ संभावय मानय | मन १ 'दोलालोला' इति पाठः । । 1 ।