पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ प्रबोधचन्द्रोदयम् प्रादुर्भवन्ति वपुषः कति वा न कीटा यान्यत्नतः खलु तनोरपसारयन्ति । मोहः सं एष जगतो यदपत्यसंज्ञां तेषां विधाय परिशोषयति खदेहम् ॥ २१ ॥ [पञ्चमोऽङ्कः - मनः – देवि, भवत्वेवम् । तथापि दुरुच्छेद्यस्तु ममत्वग्रन्थिः (विचिन्त्य । सोच्छ्वासम् ।) सर्वथा त्रातोऽस्मि भवत्या । ( इति पादयोः पतति ।) सरस्वती–वत्स, उपदेशसहिष्णु ते हृदयं जातम् । अत एतदपरमुच्यते- वशं प्राप्ते मृत्योः पितरि तनये वा सुहृदि वा शुचा संतप्यन्ते भृशमुदरताडं जडधियः । प्रादुर्भवन्तीति । वपुषः सकाशात् कति वा कीटा यूकादयो न प्रादुर्भवन्ति । वहवः प्रादुर्भवन्त्येवेत्यर्थः । यान्कीटान् यत्नतः प्रयत्नेन तनोः सकाशादपसा- रयन्ति । लोका इति शेषः । खलु यान्यत्नत इत्यत्र यच्छन्दस्य तच्छन्दापेक्षा नास्त्युत्तरवाक्यस्थत्वात् । तदुक्तं काव्यप्रकाशे– 'उत्तरवाक्यस्थो यच्छब्दस्त- च्छब्दोपादानं नापेक्षते' इति । मोह इत्यादि । जगतो लोकस्यापत्यसंज्ञां विधाय खदेहं परिशोषयतीति यत् स एष मोहः । स्रेह इति यावत् । अत्र स एष इयत्र तच्छब्दसंनिहित एतच्छन्दस्तच्छन्दार्थ एव । यत्तदोर्नित्यसंवन्धात्पार्थक्येनैतच्छ- ब्दार्थाप्रतीतेः ॥ २१ ॥ मन इत्याद्येतदपरमियन्तं सुगमम् ॥ वशं प्राप्त इति । तादृशस्य ममत्वस्योच्छेदे यल: कार्य: | विचाराधीनो ममतोच्छेद इति दर्शयति - प्रा. दुर्भवन्तीति । वपुषः शरीरात्कति कियन्तो वा कीटा यूकादयो न प्रादुर्भवन्ति नोत्स द्यन्ते । अपि तूत्पद्यन्त एव । यान्कीटान् तनोः शरीरात्खलु निश्चयेन यत्नतो यल- पूर्वमपसारयन्ति निष्कासयन्ति । एप जगतो विश्वस्य मोहः कः । यत्तेषां शरीरो- त्पन्नानामपत्यसंज्ञां विधाय कृत्वा देहं परि समन्ताच्छोषयति । यूकादौ स्वदेहोत्पन्नेऽपि ममताभावान्न देहशोषः । पुत्रे नमताभिमानस्य सत्त्वादेहशोप इत्येष को मोह इत भावः || २१ || ममत्वग्रन्थिर्ममताभिमानः सर्वथा सर्वप्रकारेण | वैराग्यप्रवेशमुप- क्षिपति – वत्सेति । उपदेशसहिष्णूपदेशग्राहि । अपरमुक्तादन्यत् ॥ – वशमिति । पितरि जनके, तनये पुत्रे, सुहृदि संबन्धिनि वा मृत्योर्मरणस्य वशमधीनत्वं प्राप्ते सति । १ ‘क एष' इति पाठः | २ 'प्रत्युपदेश– मयैतदप्यपरं' इति पाठः । ३'शुचालं तप्यन्ते' इति पाठः ।