पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् दधति विरहे मर्मच्छेदं तदर्थमपार्थकं तदपि विपुलायासाः सीदन्त्यो बत जन्तवः ॥ १७ ॥ [पञ्चमोऽङ्कः अपि च, तीर्णाः पूर्णाः कति न सरितो लङ्घिताः के न शैला नाक्रान्ता वा कति वनभुवः क्रूरसंचारघोराः । पापैरेतैः किमिय दुरितं कारितो नासि कष्टं यद्दृष्टास्ते धनमदमषीन्लानवका दुरीशाः ॥ १८ ॥ श्चेत्य़ाद्द्—दधतीति । अनी परिग्रहा विरहेऽपाये सति मर्मच्छेदादरुन्तुदत्वम- तिव्यथां ददति । कुर्वन्तीत्यर्थः । तदपि तथापि जन्तवः पामरास्तदर्थं पुत्र- मित्राद्यर्थमपार्थकं निरर्थकं निष्प्रयोजनमेव विपुलायासा बहुलश्रमाः सीदन्ति क्लिश्यन्ति । अहो आश्चर्यम् ! वत इति खेदे ॥ १७ ॥ तीर्णा इति । पूर्णा भृताः सरितो गङ्गाप्रभृतयः कति कियत्यो न तीर्णा उचिताः । अपि तु वह्वयः सरितस्तीर्णा इत्यर्थः । शैला विन्ध्याद्रिप्रभृतयः केन लविताः । सर्वेऽपि लङ्घिता इत्यर्थः । क्रूराणां सिंहशार्दूलानां संचारेण घोरा भयंकरा वनभुवः मोटमहामोटादयः कति वा नाकान्ता न व्याप्ताः । एवंप्रकारेण पापैर्दुरात्म- भिरेतैः पुत्रमित्रादिभिः किमिव दुरितं न कारितोऽसि । इवशब्दो वाक्यालं- कारे । सर्वं कारितोऽसीत्यर्थः । कारित इत्यत्र ण्यन्तनिष्टया अण्वन्तकर्तुः कर्मणोऽभिधानात्प्रथमा । कष्टं कष्टतरम् । यद्यस्मात्कारणात् धनमद्मषीम्लान- वक्रा धनमद एव मषी मालिन्यं तेन म्लानं मलिनं वक्रं येषां ते दुरीशाः दुष्ट- प्रभवः ते प्रसिद्धाः दृष्टा अवलोकिताः । अयमर्थः । पुत्रमित्रकलत्रादिनिमित्तं । पुत्रिणः । तत्कथं न पुत्रादीनां सुखजनकत्वमित्याशङ्कयाह – दधतीति | विरहे वियोगे मर्मच्छेदं दधति पुष्णन्ति । यद्यप्येवं तदपि तथापि अहो आश्चर्ये । जन्तवो विपुला बहवश्चायासाः श्रमा येषां ते तदर्थं तत्प्रयोजनायापार्थकं व्यर्थम् । वत इति खेदे | सीदन्ति दुःखिता भवन्ति ॥ १७ ॥ अपि च एते शोकयोग्या एव नम वन्त्यपकारित्वादित्याह—अपि च, तीर्णा इति । एतैः पापैः किमिव दुरितं कष्टं कारितो नासि, किंतु सर्व दुरितं कष्टं कारित एव । कष्टमेवाह । त्वयोपयाचितं कृत्वा पूर्णा वर्षांकालीनाः सरितो नद्यः कति कियत्संख्याका न तीर्णा: । अपि तु बहवस्तीर्णा इत्यर्थः । के शैला न लविता: नाक्रान्ताः । अपि तु सर्वे । क्रूराणां व्याघ्राणां संचारेण घोरा भयानका वनभुवोऽरण्यस्थल्यः कति कियन्त्यो नाकान्ताः । अपि तु सर्वा एव । कारितेऽप्येताबत्यनर्थे यद्यस्मात्कारणाद्धनमदो लक्ष्मीमदः स एव