पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० प्रबोधचन्द्रोदयम् [ पञ्चमोऽङ्कः माम्। सीदन्ति ममाङ्गानि । हा। न कश्चिन्मां वृद्धमनाथं संभावयति । क्व गता असूयादयः कन्यकाः । आशातृष्णाहिंसादयो वा स्नुषाः । कथं ता अपि मन्दभाग्यस्य मे समकालमेव दैवहतकेनापहृताः । विसर्पति विषाविदहति सर्वमर्माविध- स्तनोति भृशवेदनाः कषति सर्वकार्य वपुः । विलुम्पति विवेकितां हृदि च मोहमुन्मूलय- त्यहो ग्रसति जीवितं प्रसभमेव शोकज्वरः ॥ १२ ॥ (इति मूतिं पतति ।) संकल्पः– (सालम् 1) राजन्, समाश्वसिहि समाश्वसिहि । मनः – ( समावस्य ।) कथं देवी प्रवृत्तिरपि न मामेवमेवस्थ समाश्वासयति । संकल्प: – (सासम् ।) देव, कुतोऽद्यापि प्रवृत्तिः । यतः श्रुत- कुटुम्बव्यसनसंजातशोकानलदग्धहृदया हृदयास्फोटं विनष्टा । क्तयो निरर्थका निर्लभ्याः । 'पुमान्स्त्रिया' इत्येकशेषः ॥ — विसर्पतीति । मर्माणि जीवस्थानानि विध्यतीति मर्माविधः । 'इगुपध-' इत्यादिना कः । सर्व- कार्यं सर्वैरुपायैः कशिला हिंसिला कषति हिनस्ति । नाशयतीत्यर्थः । 'कष हिंसायाम्' इति धातुः । 'हिंसार्थानां च समानकर्मकाणाम्' इति णमुल । इती- त्यारभ्य यत इत्यन्तं सुगमम् ॥ १२ ॥ सुतकुटुम्बेति । कुटुम्बः पोप्यवर्गः तस्य वियोगशोकानलदग्धा सती हृदयास्फोटं हृदयं स्फुटित्वा विनष्टा । मृते- इति पाठे प्रतिवचनं प्रत्युत्तरम् । विसर्पतीति । एष शोकज्वरो विषाग्निवद्विषरू- पोऽग्निस्तद्वद्विसर्पति सर्वशरीरं व्याप्नोति । मे मम शर्म सुखं मर्माणि च विषाग्निव- द्विषवद्दहति ज्वालयति । भृशमतिशयेन वेदनास्तनोति विस्तारयति सर्वकार्य सर्व- च्छेदं यथा स्यात्तथा वपुः कषति छिनत्ति । विषेकितां विलुम्पति विनाशयति । हृदि मनसि मोहं बुद्धिभ्रंशमुन्मीलयति प्रकटयति । अहो इति चित्रम् । प्रसभं हठेन जीवितं प्रसति गिलति । शोकज्वर इति सर्वत्रानुषञ्जनीयम् ॥ १२ ॥ प्रवृत्तिः प्रव- तिंका वेदविद्या । एवमवस्थं मुमूर्षुम् । यत इति । यतो हेतोः श्रुतमाकर्णितं कुटु- स्वकानां कामादीनां व्यसनं निधनं तेन संजातो यः शोकानलस्तस्माद्दग्धं हृदयं १ 'शर्म' इति पाठः | २ 'अस्वस्थं' इति पाठः । ३ 'सुतकुटुम्बक' इति पाठः ।