पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ प्रबोधचन्द्रोदयम् [पञ्चमोऽङ्कः श्रद्धा — ततो वस्तुविचारेण कामो हतः, क्षमया क्रोधपारु- प्यहिंसादयो निपातिताः, सन्तोषेण लोभतृष्णादैन्यानृ॑तपैशुन्यवा- क्स्तेयासत्प्रतिग्रहादयो निगृहीताः, अनसूयया मात्सर्यै जितम्, परो- त्कर्षसंभावनया मदो निषूदितः, परगुणाधिक्येन मानः खण्डितः । विष्णुभक्तिः (सहर्षम् ।) साधु साधु संपन्नम् । अथ महा- मोहस्य को वृत्तान्तः । श्रद्धा – देवि, महामोहोऽपि योगोपसर्गैः सह न ज्ञायते कापि निलीनस्तिष्ठतीति । विष्णुभक्तिः – अस्ति तर्हि महाननर्थशेषः । प्रहरणीय- चासौ यतः- - अनादरपरो विद्वानीहमानः स्थिरां श्रियम् । अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत् ॥ ११ ॥ तिरस्किया ।' इति तल्लक्षणात् । ततो वस्तुविचारेणेलारभ्य निषूदित इत्यन्तं सष्टम् । अत्र विद्रवो नाम विमर्शसन्धेरझमुक्तम् । वववन्धनादिप्रतिपादनात् । तलक्षणम् ‘विद्रवः कथ्यते बन्धवधसन्ताडनादिकः' इति । महामोहस्येलादिना कचिल्लीन स्तिष्ठतीत्यन्तेन विरोधशमप्रतिपादनाच्छत्त्याख्यमङ्गं विमर्शसन्धेः । तदुक्तम् ‘विरोधशमनं शक्तिः' इति । योगोपसर्गैरिति । योगस्यैक्यसन्धानस्य उपसर्गाः परिपन्थिनो विनास्तैः सह । अनादरपर इति । विद्वान् बुद्धिमान् स्थिरां श्रियमीहमानः अनादरपरः सन् । अग्नेः शेषम् । अग्नेरिति पञ्चमी कार्येन साम्यस्य । अग्नेः शेषमवशिष्टं न शेषयेत् । नावशेषयेदिति भावः । एवमन्यदप्यूह्यम् । अत्र प्रसङ्गाख्यं विमर्शसन्धेरङ्गम् | उपदेशप्रवर्तनात् । तथा स्थानं प्रयाताः । प्राप्ता इत्यर्थः । ततो वस्तुविचारेणेत्यादि अथ महामोहस्येत्यन्तं निगदव्याख्यानं स्पष्टम् | योगभ्रंशं मोहस्य दृष्ट्वा योगिभिः समाहित ननस्कतया स्थातव्यमिति ज्ञापयन्ती विष्णुभक्तिमहवृत्तान्तं पृच्छति – अथेति । वृत्तान्तः समा- चारो योगोपसर्गैर्योगविघ्नैः सह निलीनो गुप्तस्तिष्ठतीति हेतोर्न ज्ञायते । उक्ते नयमुप- दिशति - यत इति । अत्यादरेति | विद्वान्पण्डितः अत्यादरपरोऽतिशयितादरयुक्तः स्थिरां निश्चलां श्रियं संपत्तिमीहमान इच्छन् अग्ने: शेषं ऋणाच्छेषं शत्रोः शेषं न शेषयेत् । ‘अनादरपर' इति पाठे अन्यादिशेषस्थापने अनादरवता न भाव्यं, किंतु त १ 'नृतवाद पैशून्यस्तेयपरिग्रहाः' इति पाठः । २ 'अत्यादरपरः' इति पाठः । -