पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् १६१ राजा – ( सानन्द मालोक्य ) - सैषान्तर्दधती तमोविघटनादानन्दमात्मप्रभं चेतः कर्षति चन्द्रचूडवसतिर्विद्येव मुक्तेः पदम् । भूमेः कण्ठविलम्बिनीव कुटिला मुक्तावलिर्जाह्नवी यत्रैवं हसतीव फेनपटलैर्वकां कलामैन्दवीम् ॥ २९ ॥ सूतः – (परिक्रम्य) आयुष्मन्, पश्य पश्य तदिदं सुरसरिपरि - सरालंकारभूतं भगवतः पावनमनादेरादिकेशवस्य विष्णोरायतनम् । स्तुतिं मधुपस्तैर्भमरझङ्कारैः पठन्तः प्रचलितलताभुजैः। उपमितसमासः। नृ- व्यन्ति नर्तनं कुर्वन्ति । अत्र तोयार्द्रा इत्यनेन शैलम्, परागैरिलनेन सौरभ्यम्, प्रचललताभुजैरित्यनेन मान्यं च सूचितम् ॥ २८ ॥ - सैवेति । तमोविघट- नादज्ञानविदलनादात्मप्रभं आत्मैव प्रभा प्रकाशो यस्य तमानन्दमन्तरभ्यन्तरे दधती पोषयन्ती । मुक्तेः पदं मुक्तिस्थानं चन्द्रचूड वसतिर्विश्वेश्वरस्य निवासभू- मिरेषा काशी विद्येव ब्रह्मविद्येव चेतः कर्षति मनो हरति । यत्र काश्यां भूमेः कण्ठविलम्बिनी कुटिला मुक्तावलिरिव भाति जाह्नवी । इयं फेनपटलैरैन्दवीमि- न्दुसंवन्धिनीं कलां हसति स्पर्वते । तत्तुल्यतया प्रकाशत इत्यर्थः ॥ २९ ॥ शंकरमर्चन्तः पूजयन्त इव | पुनः मधुपस्तैर्भमरशब्दैः प्रोद्गीतामुच्चैगीयमानां स्तुति पठन्तो वायबस्तापसाश्च मधुपानामिव रुतानि तैः प्रकर्पेण तालस्वरतानादिरूपेणो- गीतां गानक्रमवतीं स्तुतिं पठन्त इत्यर्थः । अचाक्षुषे वायाविदं नोपपद्यत इति चेदारोपेणाप्युपपत्तेरिति समाधेयम् । सरन्ति मरुतो यस्यामिति सरित् ब्रह्मनाडी त्याद्यध्यात्ममूह्यम् ॥ २८ ॥ सैपान्तर्दधतीति । सैषा चन्द्रचूडस महादेवस्य वसतिः काशी चेतो मन आकर्षति । वशीकरोतीत्यर्थः । कीदृशी काशी । अन्तस्त- मोविघटनादज्ञान विनाशात्स्वप्रभमात्मप्रकाशमानन्दं दधती प्रकाशयन्ती । पुनः कीदृशी । मुक्तेः पदं पद्यते प्राप्यतेऽनेनेति पदम् । कारणमित्यर्थः । केव । विद्येव अह्मात्मैकत्वज्ञानमिव । तदप्यज्ञानं विनाश्य स्वप्रकाशमानन्दं प्रकटयन्मुक्तिहेतुरिति । तत्र दृष्टान्तः । सा का । यत्र यस्यां काश्यामियं जाह्नवी गङ्गा वक्रामैन्दवीं कलाम- र्धचन्द्राकारां चन्द्रकलां फेनपटलै: फेनसमूहैर्हसतीव | उत्प्रेक्षते । कथंभूतेव । भूमेः कण्ठविलम्बिनी कण्ठे लम्बमाना कुटिला स्वभावतः मुक्तावलीव मुक्तामालेव । मुक्तावलीसाम्यं स्वच्छतयेति वेदितव्यम् । एषा ब्रह्मनाडी अन्तर्हृदयकमले चेतो वशीकरोतीत्याभ्यन्तरमूह्यम् | शेषं सुगमम् ॥ २९ ॥ सूतः सारथिः । इदं तदिति । सुरसरितो देवनद्याः परिसरस्तीरं तस्यालंकारभूतमायतनं स्थानम् । अनादिरीश्वर १ 'इदं तत्' इति पाठः । १५