पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् निर्मथ्यमानजलधिध्वनिघोरहेषा- मेते रथं गगनसीम्नि वहन्ति वाहाः ॥ २६ ॥ इयं च नातिदूरे दर्शनपथमवतीर्णा त्रिभुवनपावनी वाराणसी नाम नगरी । ४] १५९ अमी धारायन्त्रस्खलितजलझङ्कारमुखरा विभाव्यन्ते भूयः शशिकररुचः सौधशिखराः | विचित्रा यत्रोच्चैः शरदमलमेघान्तविलस- तडिल्लेखालक्ष्मी वितरति पताकावलिरियम् ॥ २७ ॥ मानानि खुराग्राणि तेषां समूहश्चयस्तेन चुम्बिता दलिता भूमिभागा येषां ते । दीर्घगगनभागगामिनां तुरगाणां कचिद्भुतलपर्शो धूलिवितानेनानुमीयत इति भावः । निर्मथ्यमानस्यालोड्यमानस्याम्बुराशेर्ध्वनिवद्धोरा हेषा यस्मिन्कर्मणि । घोरघोषमिति पाठे रथविशेषणम् । एते वाहाः रथं स्यन्दनं गगनभागे वहन्ति नयन्तीत्यर्थः ॥ २६ ॥ अभी इत्यादि । धारायन्त्रेभ्यः स्खलितानि जलानि येषां ते झङ्कारा ध्वनिविशेषास्तैर्मुखराः शब्दायमानाः शशिकररुचञ्चन्द्रमण्डल- स्पर्धिनः सौधशिखराः प्रासादाप्राणि | शिखरशब्द उभयलिङ्गः । अर्धर्चादिषु पाठात् । यत्र शिखरेषु विचित्रेऽयं पताकावलिरुचैरुन्नता शरत्काले अमलानां शुभ्राणां मेघानामन्ते शिरसि विलसन्त्यस्तडिल्लेखास्तासां लक्ष्मीं सौभाग्यं वित- प्रबन्धो गतिसंतानस्तेन धावता खुराग्रसमुदायेन चुम्बित ईषत्स्पृष्टो भूमिभागो स् । कीदृशं रथम् । निर्मथ्यमानो यो जलधिः समुद्रस्तस्य यो ध्वनिस्तद्वद्धोरो भयावहो घोषः शब्दो यस्य तम् । आन्तरोऽर्थः । एते प्राणा वहन्ति धारयन्ति स्थगिव रथं शरीरं गगनसी¥यन्तरिक्षे लघिम्ना घोरो जीवितहारी इत्यादि लुप्तोपमया सर्व योजनीयम् । विस्तरभयान्नेह प्रपञ्चयते ॥ २६ ॥ दर्शनपथमवतीर्णां दृष्टिमार्गगोचरा | त्रिभुवनपावनीति । मर्त्यानां स्नानदर्शनपानादिभिः देवानां नागानां च मनुष्यश- रीरग्रहणेन चेति त्रिभुवनपावनीत्युक्तम् । देवानां नागानां च स्वशरीरग्रहणे धर्मोत्पादकत्वाभावात् । वाराणसीं वर्णयति-अमी धारेति । अमी संमुखे वर्तमानाः सौधशिखरा गृहोपरिभागा भूयो बाहुल्येन विभाव्यन्ते दृश्यन्ते । कीदृशाः सौधति- खराः । धारायन्त्रेभ्यः रखलन्निर्गच्छद्यज्जलं तस्य यो शङ्कारः शब्दविशेषस्तेन मुखराः सशब्दाः । पुनः कीदृशाः सौधशिखराः । शशिकरान्मुष्णन्ति चोरयन्ति ते इति वा पाठ: । सुधाधवला इत्यर्थः । यत्र येषु सौधशिखरेण्वियमुपलभ्यमाना विचित्रा ना- नावर्णा पताकानामावलिः पतिरुञ्चैरतिशयेन शरद्यमला निर्मला ये मेघास्ते- १ 'घोरघोषम्' इति पाठः ।