पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ प्रबोधचन्द्रोदयम् नैतद्वेत्सि पुनर्भवन्तमचिरादाशापिशाची वला- सर्वग्रासमियं ग्रसिष्यति महालोभान्धकारावृतम् ॥ २१ ॥ अपि च- [चतुर्थोऽङ्कः धनं तावल्लव्धं कथमपि तथाप्यस्य नियंतो व्ययो वा नाशो वा तव सति वियोगोऽस्त्युभयथा । अनुत्पादः श्रेयान्किमु कथय पथ्योऽथ विलयो विनाशो लब्धस्य व्यथयतितरां न त्वनुदयः ॥ २२ ॥ लभ्यं इदं चाधिकं तल्लव्धं तदपि मूललभ्यमसंभावितमप्यपरं लभ्यमिति । अहो आश्चर्यम् । इयमाशा विमर्शपरम्परा । तत्र निमित्तमाह — एतदिति । वक्ष्य- माणमचिराच्छीघ्रमियमाशापिशाची महालोभान्धकारावृतं भवन्तं पुनः सर्वग्रासं ग्रसिष्यतीति यत् एतन्न वेत्सि न जानासि ॥ २१ ॥ धनं तावदित्यादि । धनं तावत्साकल्येन कथमपि कृच्छ्राव्धं प्राप्तम् । अस्य धनस्य व्ययो वा नाशो वा नियतः । नियतमिति पाटेऽस्य धनस्य व्ययो वा नाशो वा भवति । नियतं ध्रुवम् । तवोभयथा व्ययनाशरूपप्रकारद्वयेन वियोगे सति धनस्यानुत्पादोऽविद्य- मानता किमु श्रेयान्, अथ विलयो वा पथ्यः । अरे, कथय । एवं विकल्प्य विनाशपक्षं दूषयित्वानुदयपक्ष एव श्रेष्ठ इत्याह । विनाशो लव्धस्येत्यादिना । व्यथयतितराम् । अतिशायने तरप् । 'किमेत्तिङ-' इत्यादिना आम्प्रत्ययः ॥ २२ ॥ सन् अनारतं निरन्तरं सर्वदैव लभ्यं लब्धुं शक्यं यत् तल्लब्धं प्राप्तम् । इदं चाषिकं लभ्यं लब्धुं शक्यं तस्मादेवं मूलधनालभ्यं प्राप्तव्यं वृद्धिरूपं ततो वृद्धिरूपधनादपरं कालवृद्ध्याख्यं लब्धं प्राप्तमित्येवंप्रकारेण ध्यायसि धनं धनमिति । परंतु त्वमेव तन्न वेत्सि यद्भवन्तमेवेयमाशापिशाची बलाउठात्सर्वग्रासं यथास्यात्तथा झटित्येव असिष्यति गिलिष्यतीति । कीदृशं भवन्तम् । महालोभ एवान्धकारस्तेनावृतं व्याप्तम् ॥ २१ ॥ धनार्जनमतिक्लेशसाध्यमित्युपपाद्य तद्रक्षणमप्यतीव दुष्करमित्याह – अपि च । धनं तावदिति । कथमपि महता कष्टेन तावत्प्रथमतो धनं लब्धं प्राप्तं तथाप्यस्य धनस्य विशेषेण नाशे युगपत्क्षये सति नाशे वा क्रमेणापगमे सति उभयथापि नियतं नियमेन तव वियोगो बिरहोऽस्ति । ततः किं तत्राह – अनुत्पाद इति । किमु प्रश्ने । अनुत्पादोऽनुत्पत्तिः श्रेयान् श्रेयस्करी, अथ अथवा विलयो विनाशः पथ्यः श्रेयस्करः । एतत्कथय ब्रूहि । विचारे त्वेवमस्तीत्याह । लब्धस्य प्राप्तस्य विनाशो व्यथयतितराम् | अतिशयेन पीडयतीत्यर्थः । न त्वनुदयोऽनुत्पाद: । उत्पत्त्यभावे लोक १ 'नियतं विनाशे ना' इति पाठः । - 1