पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् राजा – तत्प्रतिष्ठतां भवती विजयाय । क्षमा–यदाज्ञापयति देवः । • १५२ ( इति निष्कान्ता । ) राजा – (प्रतीहारीं प्रति) 'वेगवति, आहूयतां लोभस्य जेता संतोषः । प्रतीहारी– *जं देवो आणवेदि । ( इति निष्क्रम्य संतोषेण सह प्रविशति ।) संतोषः – (विचिन्त्य सानुकोशम् ।) [चतुर्थोऽङ्कः - फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् । मृदुस्पर्शा शय्या सुललितलतापल्लवमयी सहन्ते संतापं तैदिह धनिनां द्वारि कृपणाः ॥ १९ ॥

  • यद्देव आज्ञापयति ।

कुत्रोदयः ॥ १८ ॥ साधु साध्वित्यारभ्य प्रतीहारीत्यन्तं सुगमम् । प्रतिष्ठतामिति । ‘समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । विजयाय । विजेतुमित्यर्थः । 'तुमर्थाच भाववचनात्’ इति चतुर्थी ॥ सानुक्रोशमिति । अनुक्रोशो जुगुप्सा | क्रिया- विशेषणमेतत् ॥– फलं स्वेच्छेत्यादि । प्रतिवनं क्षितिरुहां फलमखेदं स्वेच्छा- लभ्यम् । स्थाने स्थाने पुण्यसरितां शिशिरं च तन्मधुरं चेति विशेषणसमासः । पयः सलिलमखेदम् । स्वेच्छालभ्यमित्यनुषज्यते । सुललितलतापल्लवमयी मृदु- स्पर्शा शय्याप्यखेदं स्वेच्छालभ्येति लिङ्गविपरिमाणेनान्वयः । एवं च सति कृपणा: प्रदाने कुशलोक्तिराशीर्वादोऽयमेव साधुः, वयमीदृशा एवेत्यादिः, ताडने आत्मनो दुरितस्योच्छेदेन नाशेनोत्सवः संतोषः ॥ १८ ॥ देव क्रोधस्येति हिंसादयः क्रोध- मूला एवेति भावः । [प्रतीहारी– यदेव आज्ञापयति । ] सानुक्रोशं सदयम् । – फलमिति । वनवनमिति प्रतिवनं क्षितौ रुहन्ति ते क्षितिरहा वृक्षास्तेषां फलम् । जातात्रेकवचनम् । बिल्ववदरादि अखेदं यथास्यात्तथा सुखेन स्वेच्छालभ्यम् । इच्छामा त्रप्राप्यमित्यर्थः । स्थाने स्थाने स्थळे स्थले शिशिरं शीतलं, मधुरं मिष्टं, पुण्याः गङ्गायमु- नाद्याः सरितो नद्यस्तासां पयः पानीयं रखेच्छालभ्यमिति योजनीयम् । मृदुः कोमल: स्पर्शो यस्यास्तादृशी । सुललिता: सुन्दराव ता लताश्च तासां पंछवास्तव्प्रचुरा पल्लवमयी १ 'वेदवति' इति पाठः । २ 'तदपि' इति पाठः ।