पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् १४९ निष्कम्पनिर्मलगभीरपयोधिधीरा वीराः परस्य परिवादगिरः सहन्ते ॥ १५ ॥ (साघमात्मानं निर्वर्ण्य ) अहो, अहम् । क्लमो न बाचां शिरसो न शूलं न चित्ततापो न तनोर्विमर्दः । न चापि हिंसादिरनर्थयोगः लाध्या परं क्रोधजयेऽहमेका ॥ १६ ॥ ( इत्युभे परिक्रामतः ।) न्धकारस्तमः। क्रोधाविष्टस्य तमसीव न प्रकाशते सर्वं सम्यक् | तेन क्रोधान्धका- रेण विकटभ्रुकुटयेव तरङ्गास्तैः भीमस्य भयंकरस्य | सान्ध्यकिरणाः सन्ध्याकाल- सूर्यकिरणास्तवदरुणा घोरा भयंकरा दृष्टयो यस्य तस्य परस्य शत्रोः । निष्कम्पे- त्यादि । निष्कम्पो निस्तरङ्गः निर्मलः खच्छः गभीरोऽत्यन्तगम्भीरः स चासौ पयोनिधिस्तद्वद्धीरा धैर्यवन्तः स्थिरबुद्धयः । तत्र धियं बुद्धिमीरयन्ति प्रेरयन्ति ते धीरा वशीकृतान्तःकरणाः । अयं धीरशब्दो योगरूढः सत्पुरुषवचनः । अतो न पुनरुक्तिः । परिवादगिरो निन्दावचनानि सहन्ते क्षमन्ते ॥ १५ ॥ तदेवाह । सश्लाघम् । क्रियाविशेषणमेतत् । अहो अहमिति । 'अचि नित्यम्' इति प्रकृतिभावः ॥–कुम इति । वाचो वाग्व्यापारात्क्लमो ग्लानिर्नारित । शिरसः शुलं तोदो नास्ति । तनोर्विमर्दोऽङ्गभङ्गः । आदिशब्देन हिंसायाः कर्तृ- प्रयोजकानुग्रहानुमन्तृनिमित्तभावभेदाः संगृहीताः । अनर्थयोगो दुरितादिपूर्व- संबन्धः । क्षान्तस्येति शेषः । एतानि विशेषणानि वैपरीत्येन क्रुद्धे योजनीयानि । कीदृशा धीराः । निष्कम्पो निश्चलश्चासौ पयोधिश्च तद्वद्गभीरानवगाहनीयमनस एतादृशा वीरा इव वीराः । कीदृशस्य परस्य । क्रोधरूपो योऽन्धकारस्तेन विकटा उच्चावचा या भ्रुकुटि: क्रोधायितभ्रूचेष्टा सैव तरङ्गस्तेन भीमस्य भयानकस्य । पुनः कीदृशस्य । संध्यायां भवाः सांध्या ये किरणा: सूर्यरश्मयस्तद्वदरुणा रक्ता रौद्रा भयावहा दृष्टिर्यस्य तादृशस्येत्यर्थः ॥ १५ ॥ सञ्चायं प्रशंसासहितम् । –क्लमो न वाचामिति । वाचां कृमोऽवसादो न, शिरस: शूलं पीडा न, चित्तस्य मनस- स्तापः संतापो न, तनो: शरीरस्य विमर्दः परस्परगात्रसंघर्षो न, हिंसादिः प्राणिमा- रणादिरनर्थयोगोऽनर्थप्राप्तिरपि न । अतोऽहमेव क्रोधजये लाव्या प्रशस्या ॥ १६ ॥ १. 'निर्मलपयोधिगभीरवीराः' इति पाठः । २. 'अहो, अहम्' इति मुद्रित- पुस्तके नास्ति । १४