पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् - -* प्रतीहारी - ईदो आगच्छेद महाभाओ । ( इत्युभौ परिक्रामतः ।) प्रतीहारी – एसो महाराओ उवविठ्ठो चिट्ठादि । ता उव- सप्पदु भवम् । - वस्तुविचार: – (उपसृत्य) जयतु जयतु देवः । एष वस्तुवि- चारः प्रणमति । राजा – इहोपविश्यताम् । वस्तुविचार: – ( उपविश्य ) देव, एष ते किंकर: संप्राप्तः आज्ञयानुगृह्यताम् । १४५ राजा–महामोहेन सहास्माकं संप्रवृत्तः सङ्ग्रामः । तदत्र काम- स्तस्य प्रथमो वीरः । तस्य च प्रतिवीरतयास्माभिर्भवान्निरूपितः । वस्तुविचार: – धन्योऽस्मि । येन स्वामिनाहमेव संभावितः । राजा — अथ कया शस्त्रविद्यया भवान्कामं जेष्यति । वस्तुविचार: – आः पेञ्चशर: कुसुमधन्वा कामो जेतव्य इत्यत्रापि शस्त्रग्रहणापेक्षा । पश्य -

  • इत आगच्छतु महाभागः ।

+ एष महाराज उपविष्टस्तिष्ठति । तदुपसर्पतु भवान् । H चोत्पीडम् । 'द्वितीयायां च' इति णमुल् । परीप्सायामित्यनुवर्तनात् परिरम्भणे त्वरत इत्यर्थः । परिरप्स्यत इति कर्तरि ऌट् । 'उपसर्गस्य' इति सूत्रे बहुलग्रहणात्त- सिद्धेमूर्ते मूर्ते रहित: पुमान् साक्षी पश्यति, इच्छति चेत्यपि योजनीयम् । इच्छति पश्यतीत्यत्रेच्छादर्शनयोर्द्रष्टुधर्मत्वान्नारी अप्रयोजिकेति यद्यपि, तथापि साक्षिणेक्ष- णात्तस्यां चैतन्यादिकं सर्व संभाव्यत इति तात्पर्यम् ॥ १० ॥ [ प्रतीहारी - इत एतु महाभागः ।] [प्रतीहारी–एष महाराज उपविष्टस्तिष्ठति तदुपसर्पतु भवान् ।] संप्रवृत्त उपक्रान्तः । प्रतिवीरतया प्रतिस्पर्धिवीरतया निरूपितो मनस्यानीतः । आः इत्याश्चर्ये । पञ्चशर इति वीप्सोपहासार्थम् । पञ्चैव शरा बाणा यस्य सः । संमोहनास्त्रसमन्विताः पञ्चापि शराः सकलविजयायालमित्याशङ्ख्याह । कुसुमं धनु- - १ 'इदो एदु' 'इदो इदो' इति पाठौ । २ 'पञ्चशरः पञ्चशरः' इति पाठः ।