पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् १३७ प्रादुर्भविष्यति । अहं च यथासमयं प्राणायामाद्यनुप्राणनेन युष्म- त्सैन्यमनुग्रहीष्यामि । ऋतंभरादयश्च देव्यः शान्त्यादिकौशलेनो- पनिषद्देव्या संगतस्य भगवतः प्रबोधोदयमनुविधास्यन्तीति । तदह् - मिदानीं विवेकसंनिधिं प्रस्थिता । त्वं पुनः किमाचरन्ती दिवसान- तिवायसि । INT मैत्री – #अह्मेवि विष्णुभत्तीए अण्णाए चतस्सो बहिणीओ विवेअसिद्धिकालणेण महाप्पणं हिअए अहिवट्टयो । (संस्कृतमा- थिय) तथाहि —

  • वयमपि विष्णुभक्तेराज्ञ्या चतस्रो भगिन्यो विवेकसिद्धिकारणेन

महात्मनां हृदयेऽभिवर्तामहे । महामोहहतकस्य मामप्यवज्ञाय प्रवर्तमानस्येति वाक्येन मामपि सर्वकपटोपाय- ध्वंसिनीमपि तिरस्कृय कपटोपायकल्पनरूपमहाभैरव्या श्रद्धाकर्षणे प्रवर्तमान- त्वोक्तेन चाभूताहरणस्य गर्भसन्धेः प्रथमाङ्गतया पञ्चमत्वं न युज्यत इति वा- च्यम् । 'अङ्गानां च विपर्यासो रसानुगुणवर्णने' इति वचनाद्विपर्यस्ततयाङ्गव नं न विरुध्यते । चतुर्थांशस्य प्रधानाप्रधानकथावलम्बनेन प्रवर्तमानत्वाद- झान्युभयसाधारण्येन प्रतिपादितानि । तत्र प्रधानकथानुरोधेन पताकाया अभा वात्तृतीयाङ्कान्तपर्यन्तं प्रतिमुखसन्धिः । तत्रान्तिममङ्गवर्णसंहारः । तदनन्तरं पताकां विनैव मार्गमेवाङ्गमूरीकृत्य प्रवर्तते गर्भसन्धिः । अत्र प्रधानकथावल- म्वनमेवाने लेखक्षेपपताकमङ्गोल्लेखनमिति सर्वमनवद्यम् । अतिवाहयसि | याप- यसीत्यर्थः । संस्कृतमाश्रित्येति । अत्र संस्कृताश्रयणं श्रद्धायाः शीघ्रप्रति- प्राणायामादिभिः । आदिशब्दान्नामकीर्तनैरनुप्राणनेन युष्मत्सैन्यं तत्त्वविचारादिरूपम- नुग्रहीष्यामि | ऋतं सत्यं भरति बिभर्ति सा ऋतंभरा प्रज्ञा । पतञ्जलिनाप्युक्तम् 'ऋतंभरा तन्त्र प्रज्ञा' इत्यादि । ऋतंभरादयश्च देव्यः शान्त्यादिरूपेण कौशलेन समी- चीनसाधनेन भगवतः परमात्मनोऽनुविधास्यन्तीति । अनु अज्ञानजन्याव शान- न्तरं विधास्यन्ति करिष्यन्ति । विपूर्वको धाञ् करणार्थे वर्तते । अहं श्रद्धा | मैत्री- वयमपि विष्णुभक्तेराज्ञया चतस्रो भगिन्यो विवेकसिद्धिकारणेन महात्मनां हृदये वसामः ।] संस्कृतमाश्रित्य । मैत्री ब्रूते इति शेषः । महात्मनां हृदये वसाम इ- १ 'बहिणीआ— विवेकसिद्धि - हिअए वसामो' इति पाठः । १३