पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् चतुर्थोऽङ्कः । (ततः प्रविशति मैत्री ।) मैत्री - *सुदं मए मुदिताए सआसादो जधा महाभैरवी- सङ्गसणसम्भागादो भअवदीए विष्णुभत्तीए परितादा प्पिअसही सद्धेति । ता उक्कण्ठिदेण हिअएण पिंअसहीं सद्धां कदा पेक्खि- स्सम् । (परिक्रामति ।) १३२ (ततः प्रविशति श्रद्धा ) [ चतुर्थोऽङ्कः श्रद्धा – (सभयोत्कम्पैम्) घोरां नारकपालकुण्डलवतीं विद्युच्छटां दृष्टिभि- र्मुञ्चन्तीं विकरालमूर्तिमनलज्वालापिशङ्गैः कचैः ।

  • श्रुतं मया मुदितायाः सकाशाद्यथा महाभैरवीसङ्ग सनसंभ्रमाद्भगवत्या

विष्णुभक्त्या परित्राता प्रियसखी श्रद्धेति । तदुत्कण्ठितेन हृदयेन प्रियसखीं श्रद्धां कदा प्रेक्षिष्ये । ततः प्रविशतीत्यादि । श्रुतं मयेति । अत्र मार्गनामकं गर्भसन्धेरनं द्विती- यम् । श्रुतं मया मुदितासकाशादिति तत्त्वार्थकीर्तनात् । लक्षणं तु – 'तत्त्वा- ' कीर्तनं मार्गः' इति । परिक्रमणमभिनयविशेष इत्युक्तं प्राक् । चतुर्दिशमिति टावन्तोऽयं दिक्शब्दः । 'टाप चैव हलन्तानां यथा वाचा निशा दिशा' इति स्मरणात् । चतस्रो दिश: समाहृताश्चतुर्दिशम् । 'तद्धितार्थ -' इत्या- दिना समासः । पात्रादित्वान्न डीप् ॥ - घोरामिति । नाराणि नरसं- बन्धीनि कपालानि करोटयस्तान्येव कुण्डले तद्वतीं, विद्युच्छटां विद्युद्वहीं दृष्टिभि मुञ्चन्त, अनलज्वालापिशङ्गैः कचैश्च विकरालमूर्ति भयंकरस्वभावाम् दंष्ट्रा तृतीयेऽते पाखण्डतिरस्कृति विधायेदानीं चतुर्थेऽङ्के पाखण्डिप्रेरितमहाभैरवीतः सा वधानया विष्णुभक्त्या श्रद्धाधर्मो रक्षिताविति संसूचयन्नाह—–—तत इति । मैत्री – श्रुतं मया मुदितायाः सकाशात्, यथा महाभैरवीग्रसनसंभ्रमाद्भगवत्या विष्णुभक्त्या परित्राता प्रियसखी श्रद्धेति । तदुत्कण्ठितेन हृदयेन प्रियसखीं श्रद्धां कुत्र प्रेक्षिष्ये ।] ग्रसनसंभ्र- मागिलनभयात् । उत् उत्कट: कन्पो यत्र यस्यां क्रियायां यथा स्यात्तथा ॥ -घोरा मिति । अहो इत्याश्चयें । मे मनोऽद्यापि कदलिकेव वेपते कम्पते । कथंभूताया इव मे । महाभैरवीं पश्यन्त्या इव आलोकयन्त्या इव । कीदृशीं महाभैरवीम् । घोरां महाभ- १ 'पिअसही कहिं प्रेक्खिस्सं' इति पाठः । २ 'सभयोत्कम्पं पठति' इति पाठः ।