पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् १२९ कामान्मुक्तस्तत्र धर्मोऽप्यभूच्चे- त्सिद्धं मन्ये तद्विवेकस्य कृत्यम् ॥ २६ ॥ तथापि तावदसुव्ययेनापि खामिनः प्रयोजनमनुष्ठेयम् । तन्म- क्तम् । अयमाशयः । अङ्गानि प्रधानकथानुरोधीन्येवेति नियमो नास्तीत्यत्र प्र धानकथानुरोधेनाप्यङ्गनिरूपणं कर्तुं युज्यत एव । रसप्रधानले नाटकस्य रसानु - गुण्यमेव प्रधानं प्रयोजनमज्ञानामिति । अत एवायं ग्रन्थकारः प्रधानकथानुरोधी- न्यङ्गान्युदाहृतवानिति विज्ञायते । निष्क्रान्ताः सर्व इत्युक्त्वा पुनरपि शान्त्यादि- प्वाक्रमणोक्तेरप्रधानं कथानुरोधेनाप्यङ्गनिर्णयं कृतवानिति विज्ञायते । वर्ण- संहारशब्दस्य बहुपात्रसमावेशलक्षणार्थस्वीकारेण क्षपणकभिक्षुकापालिकका- पालिनीरूपबहुपात्रसमावेशस्य कृतत्वात्तदनुसारेणाप्यस्माभिरङ्गनिर्णयः क्रियते । अत्र कश्चिद्विशेषो विन्दुप्रयत्नसाधनात्प्रतिमुखसन्धिः । अत्र वर्णसंहाराख्य- प्रयत्नादङ्गमपि भवति । मुखसन्धावारम्भवदिति विलासपरिसर्पयोर्वीजानुगुण्ये- नैव निरूपणीयत्वात् । तदुभयं पूर्वमेव निरूपितम् । विधूतादिकमङ्गजातं निरू- प्यते । ततः प्रविशति पत्रहस्तः पुरुष इति सक्रोधमित्यन्तेनार्तिनिरूपणाद्विधूत- मङ्गम् । आः किमेतदित्यारभ्य मिथ्यादृष्ट्या सह प्रविशतीत्यन्तेनार्तिशान्तेः प्रतिपादनाच्छमाख्यमङ्गम् । सखि, खद्दर्शनेनात्मानमेव महाराजो गवेषयति । अतः किमुपालभिष्यतीत्यनेन परिहासवचनान्नर्माख्यमङ्गम् । ननु कामस्य रतिरि- व्यारभ्य मुहूर्तमपि न तुष्यतीत्यनेनेर्ष्या लक्षणदोषप्रच्छादनान्नर्मद्युतिर्नामाङ्गम् । एवं निद्राकुलनयनेत्यारभ्य कीदृशं भयमित्यन्तेनोत्तरोत्तरोत्कर्षाचहवाक्यवि- न्यासात्प्रगमनम् । भट्टारकेत्यारभ्य प्रविशाव इत्यन्तेन प्रकाशे संभोगनिरोधनेन मुखनिरोधनान्निरोधाख्यमङ्गम् । 'ज्ञातुं वपुः परिमितं क्षमते' इत्यादिश्लोकेन हेतुविशेषवद्वाक्येन पुष्पं नामाङ्गं निरूपितम् । आः परमेश्वरमैन्द्रजालिकमित्या- क्षिपतीत्यनेन प्रत्यक्षनिष्ठुरत्वप्रतीतेः वज्रं नामाङ्गं निरूपितम् । भो भो महाभाग, कौतुकप्रयुक्ते वाकलहे न युक्तमेतत्तपखिनि प्रहर्तुमित्युपपत्तिमद्वाक्यन्यासादु- पन्यासमङ्गम् । खङ्गं प्रतिसंहरतीत्यारभ्य यत्सर्वेऽस्मिन्महामोहस्य किंकरा इत्यन्तेन बहुपात्रसमावेशप्रतिपादनाद्वर्णसमाहारो नामाङ्गं त्रयोदशं निरूपित- मिति ध्येयम् । तर्हि राजकार्य मन्त्रितव्यमित्यादि प्रस्थापयाम इत्यन्तं गर्भसं- धेरुपक्षेपमिति विज्ञेयम् । अतः परं गर्भसंधिः प्रस्तूयते । 'गर्भस्तु दृष्टनष्टस्य बी- जस्यान्वेषणं मुहुः' । अस्यार्थः । मुखसंधेस्तोकोद्दिष्टतया लक्ष्यालक्ष्यस्य प्रतिमुख सा च विष्णुभक्तिमनुव्रतानुगता । तत्र तयोः समीपे कामान्मुक्त: कामरहितो धर्मोप्य -