पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ प्रबोधचन्द्रोदयम् [तृतीयोऽङ्कः भिक्षुः– आचार्य, महाश्चर्यमेतद्दर्शनम् । यत्राक्लेशमभिमतार्थ- सिद्धयः संपद्यन्ते । ( मदस्खलितं नृत्यतः ।) क्षपणक: – (अयि 'पीणत्थणि' इत्याहि पूर्वमेवोक्खा ।) कापालिकः—–कियदेतदाश्चर्यं पश्यसि । अत्रानुज्झितचक्षुरादिविषयासङ्गेऽपि सिद्ध्यन्त्यमू- रत्यासन्नमहोदैयाः प्रणयिनाप्यष्टौ महासिद्धयः । वश्याकर्षविमोहनप्रशमनप्रक्षोभणोच्चाटन- प्रायाः प्राकृतसिद्धयस्तु विदुषां योगान्तरायाः परम् ॥ २२॥ इति । नृतिर्नाम केवलं गात्रविक्षेपात्मकोऽङ्गहारविशेषः । 'नृती गात्रविनामे' इत्ययं धातुर्देवादिकः । अत्र एष कापालिक इति पूर्वाभ्यासवशात्स्खलितोक्तिः । सावकेभावेहि इति स्खलितोक्तिः । अत्र ध्रुवान्तरी मदप्राययुक्ता । यद्वा प्रासा- दिकी प्रसादनप्रयोजनत्वाछुवाया इति ॥ — अत्रेत्यादि । अत्र ते प्रणयिना- मिनिविष्टेन योगिनानुज्झितवाञ्छितार्थविषयासङ्गेऽपि । अभीष्टवस्तुविषयामि- लाषापरित्यागेऽपीत्यर्थः । अमूरष्टौ महासिद्धयोऽत्यासन्नमहोदया अतिनिकट- वर्तिमहाफलाः सत्यः सिद्ध्यन्ति । अणिमा महिमा गरिमा लघिमा प्राप्तिः प्राकाम्यमीशत्वं वशित्वं चेत्यष्टौ सिद्धयः । येनाणिनैश्वर्येणाणुर्भवति साऽणिमा । येन महिन्नैश्वर्येणाकाशवन्महान्भवति सा महिमा । येन गरिम्णा ऐश्वर्येण गुरुः पर्वतादिधुरन्धरेणापि धर्तुमशक्यो भवति सा गरिमा । येन लघिन्नै- श्वर्येणातिलघुः सूर्यमरीचिमालम्ब्य सूर्यादिलोकान् गन्तुं शक्नोति सा लघिमा । येनैश्वर्येणाङ्गुल्यम|दिना चन्द्रादीन्स्प्रष्टुं शक्नोति तत्प्राकाम्यम् । येनैश्वर्येण भूत- सार्धं शोभनं नृत्यति तदेतया सार्धमाबामपि नृत्याव: 1] मदस्खलितं मदनं स्खलिते स्खलनं प्राप्तं यथास्यात्तथा नृत्यतः । अइ पीणघणत्थणेति पूर्वोक्तां गाथामित्यर्थः । यत्रेति । अक्लेशं चान्द्रायणादितपसा विना अभिमता अभिलषिता अर्थसिद्धयः । प्रयो. जनसिद्धय इत्यर्थः । आश्चर्यमेवाह – अत्रानुज्झितेति । अत्रास्मन्मते अनुज्झितो. इत्यक्तः चक्षुरादीनामिन्द्रियाणां विषयास्तेषामासङ्गः संवन्धस्तस्मिन् सत्यपि अष्टौ म हासिद्धयोऽणिमाद्याः सिद्ध्यन्ति । प्राकृताश्च सिद्धयः सिद्ध्यन्ति प्राप्यन्ते । परंतु वि- दुषां ज्ञानिनां योगान्तरायाः योगविघ्नभूता भवन्तीत्यध्याहारः । कीदृशानां विदुषाम् । १ 'भिक्षुः – एवं कुर्व:' ( इति मदस्खलितं नृत्यतः ) इति पाठः । २ ' इत्यादि गायति' इति पाठः | ३ 'महोदयप्रणयिनाम्' इति पाठः ।