पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् ११३ कापालिकः – अरे क्षपणक, धर्म तावदस्माकमवधारय । मस्तिष्कौन्त्रवसाभिपूरितमहामांसाहुतीर्जुह्वतां वहौ ब्रह्मकपालकल्पितसुरापानेन नः पारणा । सद्यःकृत्तकठोरकण्ठविगलत्कीलालधारोज्ज्वलै- रर्थ्यो नः पुरुषोपहारबलिभिर्देवो महाभैरवः ॥ १३ ॥ पालदीक्षादीक्षितः सन् अहं । योगाञ्जनदिव्यचक्षुषा । योगः समाधिः स एवा- जनं तेन दिव्यमलौकिकं चक्षुर्दृष्टिस्तेन साधनेन मिथोऽभिन्नं परस्परव्यावृत्तं ज गदीश्वरादभिन्नं पश्यामि । अयमभिप्रायः । हे लोकाः, ईश्वरादभिन्नं जगद्रष्टुका- माश्चेन्मदीयं नरास्थिमालाधारणादिरूपं व्रतमाचरतेति ॥ १२ ॥ मस्तिष्के- त्यादि । मस्तिष्कं मेदः, अन्त्राणि शिराविशेषाः, वसा मज्जास्ताभिरभिपूरितं महामांसं महापशोर्नरस्य मांसं तेनाहुतीर्वहौ जुहृतां नः ब्रह्मकपालं ब्रह्मणो नरस्य कपालं तत्र कल्पितं सुरापानं तेन पारणा तृप्तिः सद्यस्तदानीमेव कृत्तात्खण्डि- तात्कठोरकण्ठाद्विगलन्तीभिः कीलालधाराभी रक्तप्रवाहैरुल्बणैरधिकैः पुरुषो- पहारबलिभिर्महाभैरवो देवो नोऽर्च्यः । मस्तिष्कान्त्रेत्यादिना कीदृशस्तव धर्म इ- त्यस्योत्तरं दत्तम् । सद्यःकृत्तेत्यादिना भैरवोपासनावशायातकैलासवास इति वचनभझ्या कीदृशस्तव मोक्ष इत्यस्योत्तरं दत्तमिति विवेकः ॥ १३ ३] गत्वा । धर्म तावद्वदति । मोक्षप्रश्नस्यायुक्तत्वाद्धर्म तावदादावेवावधारय । निश्चिनुही- त्यर्थः । मस्तिष्केति । नोऽस्माकं ब्रह्मकपाले कल्पिता निर्मिता सुरा मद्यं तस्याः मानं तेन पारणा पुष्टिः । भवतीत्यध्याहारः । कीदृशानां नः । वहावनौ मस्तिष्केण कपालान्तर्वतिर सेनाक्ता मिलिता या वसा तयाभिघारितानि महामांसानि मनुष्यमांसानिय तेषामाहुतीर्जुह्वतां होमं कुर्वताम् । किं च | नोऽस्माकं भैरवो देवोऽर्च्यः पूज्य: कैः साथनैस्तान्याह । पुरुषा एवोपहारा उपकप्ता वलयो बलिदानरूपास्तैः । कथंभूतैः पु- रुषोपहारवलिभिः । सद्यस्तत्क्षणमेव कृत्तो भिन्नः कठोरो निष्ठुरः कण्ठस्तस्माद्विशेषेण गलत्कीलालं रक्तं तस्य धाराभिरुज्ज्वला: शोभमानारतैः । अथवा नोऽस्माकं भैरव उमाकान्तोऽर्च्यः । देवः स्वप्रकाशः । कैः । पुरि शेते पुरुषोऽन्तरात्मा तदर्थमुपहारा: समर्पणानि त एव बलयस्तैः । कीदृशैः । सद्यस्तत्क्षणमेव कृत्तकठोरकण्ठादिवो नामितक- ण्ठादिव विगलदगृतधाराभिः शोभमानैः मस्तकभवं मस्तिष्करूपं तेनाक्ता कान्तिमती. या वसा स्नेहस्तेनाभिधारिताः सिक्ता महत्यो विषयेषु प्रवृत्ता बुद्धिवृत्तयस्ता एव मां- सानि तेषामाहुतीरग्नौ शिवमूर्ती जुहताम् । शिवार्पणं कुर्वतामित्यर्थः । किं च नो- इस्माकं ब्रह्मरन्ध्रोपलक्षितः कपालो ब्रह्मकपालस्तत्र कल्पिता विद्यमाना सुरा चान्द्री १ 'मस्तिष्काक्तवसा' इति पाठः । ११