पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [तृतीयोऽङ्कः क्षपणकः— *अले मुलुक्ख, कस्सिवि मण्णन्तले कोवि मुक्को भविस्सदि । तदो दे संपदं णट्टस्स कीरिसं उवआलं कलिस्सदि । अण्णं च पुच्छामि । केण दे ईरिसो धम्मो उवदिवो । भिक्षुः – नूनं सर्वज्ञेन भगवता बुद्धेनोक्तोऽयमेव धर्मः । क्षपणकः– अले, सव्वण्णो बुद्धोत्थि त्ति कधं तुए णादम् । भिक्षुः – ननु रे, तदागमैरेव प्रसिद्धो बुद्धः सर्वज्ञ इति । क्षपणक:– अले, उज्झिअबुद्धअ, जयि तस्स भासिदेण सव्वण्णत्तं पडिवज्जेसि ता अहं वि सव्वं जाणामि । तुमंपि पि- दुपिदामहेहिं सद्धं सत्तपुलिसं अम्हाणं दासो त्ति । – १०८ - -

  • अरे मूर्ख, कस्मिन्नपि मन्वन्तरे कोऽपि मुक्तो भविष्यति । ततस्ते

सांप्रतं नष्टस्य कीदृशमुपकारं करिष्यति । अन्यच पृच्छामि । केन ते ईदृशो धर्म उपदिष्टः । " अरे, सर्वज्ञो बुद्ध इति कथं त्वया ज्ञातम् । अरे उज्झितबुद्धक, यदि तस्य भाषितेन सर्वज्ञत्वं प्रतिपन्नोऽसि तहमपि सर्वे जानामि । त्वमपि पितृपितामहै: सह सप्तपुरुषमस्माकं दास इति । भावः । मुच्यमानक्षणे इति शेषः । मन्वन्तरे कालान्तरे । कीदृशमित्याक्षेपः । नाशिना त्वया कस्य कृते व्रतं धार्यते ।] [क्षप – अरे मूर्ख, यदि कस्मिन्नपि मन्य- न्तरे कोऽपि मुक्तो भविष्यति, तदा ते सांप्रतं प्रनष्टस्य कृते कीदृशनुपकारं करिष्यति । अन्यच्च पृच्छामि । केनेदृशो धर्म उपदिष्ट: ।] [क्षप – अरे, सर्वज्ञो बुद्धोऽस्तीति त्वया कथं ज्ञातम् ।] [क्षप - अरे, ऋजुबुद्धे । यदि तस्य भाषितेन सर्वज्ञत्वं प्रतिप द्यसे, तदहमपि सर्वं जानामि, त्वमपि पितृपितामहैः सार्धं सप्तपुरुषैः सह दास इति । क्षपणको दिगम्बरसिद्धान्तः । फलकाले त्वदीयस्थितेरसत्वान्मुधा प्रयास इति भावः ।- - अस्मत्संतताविति । अस्मत्सन्ततावस्मद्विज्ञानपरंपरायां पतितः प्रविष्टः कश्चिद्विज्ञानलक्षण: प्रवृत्तिविज्ञानसंतानान्त:पाती संतारी मोक्ष्यते मुक्तो भविष्यति । १ 'अले मुक्ख, जइप्पणट्टरस किदे केलिस केण ईलिसे धम्मे उवदिट्ठे' इति २ 'ननु' इति पाउः | ३ 'उज्जुअबुद्धिआ जइ - तुम वि पिट्टपिदामहेहिं सद्धं सत्तपुलिसेहिं दासे त्ति' इति पाठः । पाठ: ।