पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ प्रबोधचन्द्रोदयम् [तृतीयोऽङ्कः कसाअपिसङ्गचिउरो मुण्डिदसचूडमुण्डपिण्डो इदो जेव्व आअच्छदि । शान्तिः–सखि, बुद्धागम एषः । भिक्षुः – (आकाशे) भो भो उपासकाः भिक्षवश्च, श्रूयन्तां भग- वतः सुगतस्य वाक्यामृतम् । (पुस्तकं वाचयति) पश्याम्यहं दिव्येन चक्षुषा लोकानां सुगतिं दुर्गतिं च । क्षैणिकाः सर्वे संस्काराः । नास्त्यात्मा स्थायी । तस्माद्भिक्षुषु दारानाक्रमत्सु नेर्षितव्यम् । चित्त- मलं हि तद्यदीर्ष्यानाम । (नेपथ्याभिमुखमवलोक्य) श्रद्धे, इतरतावत् । ( प्रविश्य श्रद्धा ) १ श्रद्धा — *आणवेदु लाउलैम् । भिक्षुः— उपासकान्भिक्षूंश्च चिरमालिङ्गय स्थीयताम् । चिकुरो मुण्डितसचूडमुण्डपिण्ड इत एवागच्छति ।

  • आज्ञापयतु राजकुलम् |

पिशङ्गाः पिङ्गलवर्णाश्चिकुराः कुन्तला यस्य सः । शिरसि चूर्णकुन्तलान्वलया- कारेण स्थापयित्वा मध्यप्रदेशं सर्व वापितवानित्यर्थः । तादृशी दीक्षा तेषा- मिति प्रसिद्धिः । मुण्डितकेश इत्यादि । उपासकाः । उपासकशब्दो वेदवाह्यानां तच्छिष्यवाचकः । सौगतवरूपमाह - पश्याम्यहमिति । अत्र यदुच्यते तत्रानुमानेनाप्यागमेनापि प्रत्यक्षेण दृष्ट्वोच्यत इत्यर्थः । क्षणिका इत्यादि । सर्वे भावा इति शेषः । भावान्तर्गतत्वादात्मनोऽपि क्षणिकत्वमित्याह – नात्मा स्थायीति | देहानां च प्रतिक्षणं विद्यमानत्वात्स्वस्वामिभावसंबन्धो गलितः । अतो भ्रान्त्या नेर्षितव्यम् । इतोऽपि ईर्ष्या न संपादनीयेत्याह-चित्ते त्यादि । चित्तमलं ही । अतस्त्याज्या | समं ज्ञानसंततेः संसारत्वादितिभावः॥ तरुणतालतरुप्रलम्बो लम्वत्कषायपिशङ्गचीवरो मुण्डितसचूडमुण्डपिण्ड इत एवाग- च्छति ।] तरुण: प्रगल्भश्चासौ तालतरुश्च तद्वत्प्रलम्ब उच्च: । लम्बलम्बायमानं क षायं सगन्धं पिशङ्कं रक्तं चीवरं वस्त्रं यस्य । मुण्डित: सचूड: सशिखो मुण्डरूप- पिण्डो यस्य । संस्क्रियन्ते विषयीक्रियन्ते ते संस्काराः | भावा इत्यर्थः । स्थायी परलोक- भोक्ता । नेषितव्यमिति । सर्वस्य क्षणिकत्वाद्वेषेर्ष्ययोः परस्परासंसर्गादिति भावः । [ श्रद्धा – आज्ञापयतु राजकुलम् ] [श्रद्धा - यदाज्ञापयति राजकुलम् |] [क- - १ 'पिसङ्गचीवलो' इति पाठः । ३ ‘संस्क्रियन्ते क्षणिकाः' इति पाठः । ४ 'लाअउलं' इति पाठः । २ 'पदयाम्यहं भिक्षवो दिव्येन' इति पाठः ।