पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतन् १०३ करुणा – #समस्ससद् पिअसही । णं खु णाम॑मेत्तकेण पिय- सहीए भेदव्वं । जदो सुदं मए हिंसासआसादो जं अत्थि पासण्डाणं वि तमसः सुदा सङ्केति । तेण एसा तामसी सद्धा भविस्सदि । शान्तिः – (समाश्वस्य) सखि, एवमेवैतत् । तथाहि - दुराचारा सदाचारां दुर्दर्शा प्रियदर्शनाम् । अम्बामनुसरत्येषा दुराशा न कथंचन ॥ ७ ॥ तद्भवतु तावत् । सौगतालयेष्वप्यसावन्विष्यताम् । (शान्तिकरुणे परिक्रामतः ।)

  • समाश्वसितु प्रियसखी । न खलु नाममात्रेण प्रियसख्या भेतव्यम् ।

यतः श्रुतं मया हिंसासकाशाद्यदस्ति पाषण्डानामपि तमसः सुता श्रद्धेति । तेनैषा तामसी श्रद्धा भविष्यति । सहसैवार्थसंपत्त्या प्रवेशः । नाममात्रेणेति । नामसाम्यश्रवणमात्रेणेत्यर्थः । समाश्वस्य मूर्च्छातः प्रतिबुध्य /- एवमेवैतदिति । एतत्करुणोक्तमेव निश्चितमेव । तदाह—तथाहीत्यादि । दुराचारेति । दुष्ट आचारो यस्याः सा दुराचारा । पापाचारेत्यर्थः । सन् प्रशस्त आचारो यस्याः सा ताम् । 'सन् प्रशस्ते विद्यमाने सत्याभ्यर्हितसाधुषु' इत्यमरः । दुर्दश दुःप्रेक्ष्या । भयंकरीत्यर्थः । प्रियं शोभनं दर्शनं प्रेक्षणं यस्याः सा ताम् । शान्तामित्यर्थः । अम्बां सात्त्विकीं श्रद्धाम् । एषा तामसी श्रद्धानुसरत्यनुकरोति । रूपनामभ्यामेव साम्यं भजते न गुणैः । अतश्च दुराशा न कथंचनाम्बामनुतिष्ठतीति ॥ ७ ॥ अम्बा सर्वथा नास्त्येव तथापि यावत्सामर्थ्य मार्गितव्यत्याह । तद्भवतु । तदपि [करुणा- समाश्वसितु प्रियसखी । न खलु नाममात्रेणापि प्रियसख्या भेतव्यम् । यतः श्रुतं मया हिंसासकाशात् यदस्ति पाखण्डानामपि तमसः सुता श्रद्धेति । तेनैषा तामसी श्रद्धा भविष्यति ।] दुराचारेति । कीदृशी एषा । दुःखद आचारो यस्या: सा । कीदृशीमम्बाम् । सन् आचारो यस्याः सा ताम् । पुनः कथंभूता । दुःखदः दर्शो दर्शनं यस्याः सा । प्रिये आत्मनि दर्शनं यस्यास्तामिलम्बाविशेषणम् । अम्बे- वाम्बा मातेव हितकारिणी तामेषा दुराशा कथंचन कथमपि नानुसरति । अतिवि- १ 'मत्तकेणावि-अहिंसा-पाहुण्डाणं-तमस्स-हुबिस्सदि' इति पाठः ।