पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] चन्द्रिका प्रकाशाख्यटी काद्वयोपेतम् १०१ जं मोक्खसुखदो ( इति परिकामति) । (आकाशे) अलेले सावका, सुणुद्धं- मलमअपुग्गलपिण्डे सअलजलेहिं वि केरिसी सुद्धी । अप्पा विमलसहाओ रुसिपलिचलणेहिं जाणव्वो ॥ ५ ॥ श्रावकाः, एष जिनवरभाषितः परमार्थोऽयं मोक्षसुखदः । अरेरे शृणुध्वम् - मलमयपुद्गल पिण्डे सकलजलैरपि कीदृशी शुद्धिः । आत्मा विमलस्वभाव ऋषिपरिचरणैर्ज्ञातव्यः ॥ वात्मा विमुक्तश्चोर्ध्वगो भवेत् ॥” इति परिक्रामति । आकाश इति । आकाशे कर्णं दत्त्वेति शेषः । 'अप्रविष्टैः सहालापात्स एवाकाशभाषितः । एष प्रयोज्य आकाशे लक्ष्यं बद्धेयनन्तरम् ॥ किमात्थेति वचोऽनूद्य पश्चात्कार्यं तदुत्तरम् ॥' पूर्वमाकाशे लक्ष्यं वज्रेत्युक्त्वानन्तरमाकाशभाषितं प्रयोज्यम् । पूर्वं किमात्थे- त्युक्खा पश्चात्तस्य प्रविष्टपात्रस्य वचसोऽनुवादं कृत्वा तस्योत्तरं दातव्यम् । अत्राकाशभाषितं नामोपसन्धिः । 'प्रश्नो दूतश्च लेख्यं च नेपथ्योक्तिस्तथैव च । आकाशभाषणं चेति विज्ञेयाः पञ्च सन्धयः ॥' इति ॥ - मलमपति | पुद्गल पिण्डे परमाणुपुञ्जरूपे शरीरे । इयं ध्रुवा चान्तरी नाम । तथोक्तं वसन्तराजीये-'सूचने पात्रभेदानां तत्स्वभावार्थसूचनी । या गीतिः सा ध्रुवा तुल्यसंविधानविशेषणे ॥ प्रावेशिक्याक्षेपिकी च तथा प्रासादिकीति च । नैष्कामिक्यान्तरी चेति तासां ल- क्षणमुच्यते ॥ प्रवेशसूचकादौ तु ध्रुवा प्रावेशिकी मता । प्रसङ्गमध्येऽन्यार्थस्याक्षेपा- दाक्षेपिकी मता ॥ प्रासादिकी तु पात्राणां व्याकुलानां प्रसादनात् । निष्कामसूचिका यान्ते ध्रुवा नैष्कामिकी भवेत् ॥ विषादे विस्मृतौ क्रोधे प्रमादे संभ्रमे मदे । दोषप्रच्छादनादौ च गीयते या तु सान्तरी ॥' इति । अत्र दोषप्रच्छादनार्थत्वादान्तरी - सुखदः । रे रे श्रावकाः शृणुत शृणुत – मलमयपुद्गलपिण्डे सकलजलैरपि कीदृशी शुद्धिः । आत्मा विमलस्वभाव ऋषिपरिचरणैर्ज्ञातव्यः ॥५॥ श्रावकाः शिष्याः । पुद्गलं शरीरम् | 'पुद्गलं वपुरात्मनः' इति धरणिः । तस्य श्लेष्ममूत्रादिपूर्णत्वात्कथमपि न शुद्धिरितिभावः | परिचरणैः सेवनैः । अयमभिप्रायः । आत्मा दीप इवेत्युक्तं तत्रायमात्मा परिच्छिन्नपरिमाण: । गृहमध्ये इत्युक्तत्वात् । यथा दीपो घटगृहप्रा- सादोदरप्रकाशक: परिमितप्रकाशकत्वात् एवमयमात्मा शरीरान्तः प्रकाशकत्वात्ततोऽपि स्वल्पपरिमाण इति । उक्तं च जिनैः । खल्प आत्मा । स्वल्पपरिमाण इत्यर्थः । १०