पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् ९३ , णिवेसेण । वअणमत्तकेण जेव्व भट्टिणो दासी सद्धौ सव्वं अण्णां करिस्सदि । सा खु मए मित्था धम्मो, मित्था मोक्खो, मित्था वेअमग्गो, मित्था सुहविग्घअराई सात्थपलविदाई, मित्था सग्गफलं ति भणिअन्ती वेअमग्गं जेव्व पलिहलिस्सदि, किं उण उवणि- सदम् । अविअ । विसआणन्दविमुक्के मोक्खे दोसाणं दंसअन्तीए उवणिसदोवि विरत्ता कलिस्सदि अचिलं मए सद्धा । - महाराज:- - यद्येवं मे प्रियं संपादितं प्रियया । ( पुनरालि- जय चुम्वति ।) मिथ्याष्टिः– *भट्टिणोप्पआसे एव्वं प्पॅउत्तेण लज्जेमि । ● भर्तुर्दासी श्रद्धा सर्वामाज्ञां करिष्यति । सा खलु मया मिथ्या धर्मो, मिथ्यामोक्षो, मिथ्या वेदमार्गो, मिथ्या सुखविघ्नकराणि शास्त्रप्रलपितानि, मिथ्या स्वर्गफलमिति भण्यमाना वेदमार्गमेव परिहरिष्यति, किं पुनरु- पनिषदम् । अपिच । विषयानन्दविमुक्ते मोक्षे दोषान्दर्शयन्त्योपनिषदोऽपि विरक्ता करिष्यतेऽचिरं मया श्रद्धा |

  • भट्टारकस्य प्रकाशे एवं प्रवृत्तेन लज्जामि ।

सकाशादाकृष्य पाषण्डे निवेशयितुं क्षमा । अयमर्थः । ये नास्तिकास्ते पाषण्डा- स्तेषां सात्विकी श्रद्धा नास्ति । अपि तु राजसी तामसी च । अत एव श्रद्धाया- •स्तत्र पाषण्डेषु प्रवेशनमुपपद्यते । शेषं सुगमम् । श्रद्धा त्रिविधा । सात्विकी राजसी ता •मसी चेत्याह श्रीभगवान्-'त्रिविधा भवति श्रद्धा देहिनां साखभावजा । सात्विकी राजसी चैव तामसी चेति तां शृणु ॥ यजन्ते सात्विका देवान्यक्षरक्षांसि राजसाः । आज्ञां करिष्यति । सा खलु मया मिथ्या धर्मो, मिथ्या मोक्षो, मिथ्या वेदमागों, मिथ्या सुखविघ्नकराणि शास्त्रप्रलपितानि, मिथ्या स्वर्गफलविद्येति भण्यमाना झटिति वेदमार्गमेव परिहरिष्यति । किं पुनरुपनिषदम् । अपि च विषयानन्दविमुक्ते मोक्षे दो- घान्दर्शयन्त्या उपनिषदोऽपि विरक्ता करिष्यतेऽचिरं मया श्रद्धा | [मिथ्यादृष्टिः- १ 'सद्धा अण्णं' इति पाठः । २ 'सग्गफलविज्जेति भणिज्जन्ति झडिति वेद- मगं' इति पाठः । ३ 'मे संपादितम्' इति पाठः । ४ 'पउत्तेण भट्टारएण' इति पाठः ।