पृष्ठम्:प्रपन्नपारिजातः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमलनयन वासुदेव विष्णो धरणिधरांच्चुत शङ्खचक्रपाणे । भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ' ॥३८॥ * मनुरप्याह भगवान् गूढं सन्यासवैभवम् । अर्चा नारायणस्येति ब्रुवन् वर्णाश्रमक्रियाः ॥ ३९ ॥ ** यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः । तेन चेदविवादस्ते मा गङ्गाम् मा कुरून् गम: ॥ ४० ।। दक्षिणाशापतेरत्र न मुख्या हृदयस्थितिः । अन्तः प्रविष्टः शास्ता यो जनानां यमयत्यपि ।। ४१ ।। आत्मानमन्तरस्तस्य' मृत्युर्मृत्योः हृदि स्थितः । तेन सर्वाधिराजेन वेिवस्वद्दिम्बवर्तिना ॥ ४२ ॥ अविवादस्तु तस्यैव *पादयोरात्मनोऽर्पणम् । *योन्यथा सन्तमात्मानं अन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चरेणात्मापह्ारिणा ॥ ४३ ॥ तस्मात्सर्व्रनेियन्तारं सर्वेषां च हृदि स्थितम् । भगवन्तं प्रपन्न। ये तीर्थादेिस्तैर्विशुद्धयति' ' ॥ ४४ ॥ ीं अर्थोऽयं’ बहुशः प्रोक्तो शौनकाद्यैर्महर्षिभिः" । “तावद्गच्छेतु तीर्थानि सरितश्व सरांसि च । यावन्नाभूच भूपाल ! विष्णुभक्तिपरं मनः ॥ ४५ ॥

  • “ यत्किञ्चिन्मनुरवदत् तद्भेषज्ञम् ” इति श्रुतिप्रकीर्तितवैभवस्य मनो: स्मृतिं प्रमाणयन्ति ।

विष्णुधर्मव्यवस्थापकाचायैसार्वभौमानां श्रीशौनकादिमहर्षीणां धर्म - शास्त्राणेि उदाहरन्ति । 1. अन्तरा तस्य-पा० क. 4. पदयोः--पा० ग. 8. अन्यथा-पा० क. 4, तैर्हि शुध्यति-पा० क, 5. अथायम् --पl० क, 6. मनीषिभिः-पा० क. �