पृष्ठम्:प्रपन्नपारिजातः.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रीमते रामानुजाय नमः
श्रीमते वरदार्यमहृागुरवे नमः
(अ)वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् ।
भाप्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥

श्रीवत्सकुलतिलकै: श्रीमद्वरदाचार्यमहृागुरुभिः अनुगृहीतः
प्रपन्नपारिजात:

प्रमाणपद्धतिः
(अवतरणिका)

(आ)आचार्यार्यमपादेभ्यो 1नमस्यासन्ततिं दधे ।
2यदाऽऽसङ्गवशात् पुंसां मनःपद्मं प्रबुध्यते ॥ १ ।।

(अ)श्लोकोऽयं – श्रीमद्वरदाचार्याणां वैभवप्रकाशनेन तद्विषये कृतज्ञतानिवेदनपुरस्सर्र वन्दनसमर्पणैकतान:, 'तनियन्' इति द्राविडभाषायां व्यवह्रियमाणः, तदन्तरङ्गशेिष्यावतंसैः श्रीमद्भिः श्रुतप्रकाशिकाचार्यैः श्रीसुदर्शनभट्टारकैः अनुगृहीतः, तदुपकारस्मृत्यै ग्रन्थादावत्र पूर्वाचार्यैरुपनिबद्धः ॥

(आ)श्रीमन्त:, तत्रभवन्त:, श्रीभगवद्भागवताचार्याणां निरवधिक - निरुपाधिकदिव्यकृपाकटाक्षसन्धुक्षणेन समुपलब्धदिव्यविशदतमविलक्षण-विज्ञानसर्वस्वाः, विशुद्धविमलदिव्यचारित्राः, नित्यानवद्यहृद्यविलक्षण-विशिष्टानुष्ठाननिष्ठागरिष्ठा:, प्रपन्नजनजीवराजीवजीवातवः, परमकारुणिकाः कृपा-


1. नमस्यां विदधाम्यहम् - पा० ग. 2. यत्संसर्ग - पा० ग.


क - आन्ध्रलेिपिंतालपत्रमन्थः ॥
ख -- आन्ध्रलिपिलिखितपुस्तकम् ।
ग - प्रन्थलिपितालपत्रप्रन्थः ॥