एतत् पृष्ठम् परिष्कृतम् अस्ति
ओम्
श्रीमते श्रीनिवासाय नम:
- ऊर्ध्वौ हस्तौ यदीयैौ प्रतिभटदलने बिभ्रतः शङ्खचक्रे
- सेव्यावङ्घ्री स्वकीयावभिदधदधरो दक्षिणेी यस्य पाणिः ।
- तावन्मात्रं भवाब्धिं गमयति भजतामूरुगो वामपाणिः
- श्रीवत्साङ्कश्च लक्ष्मीर्यदुरसि लसतो वेङ्कटेशस्स जीयात् ।।
- ऊर्ध्वौ हस्तौ यदीयैौ प्रतिभटदलने बिभ्रतः शङ्खचक्रे
- चक्रं शास्ति सुकर्मयोगकलनं, ज्ञानं च शङ्खस्तथा
- पाणिश्चारुकटिप्रसञ्चिततल: श्रीभक्तियोगं तथा ।
- श्रीमत्पादसरोजदर्शककरो योगं प्रपत्तिं परं
- यस्यान्वर्थचतुर्भुजस्स भगवान् जेजेतु लक्ष्मीसखः ।।
- चक्रं शास्ति सुकर्मयोगकलनं, ज्ञानं च शङ्खस्तथा
- श्रीवेङ्कटाद्रिनिलयः कमलाकामुक: पुमान् ।
- अभङ्गुरविभूतिर्नः तरङ्गयतु मङ्गलम् ॥