सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७४ ) भाष्यगतमत निर्देशस्थलेऽपि भिक्षुः संप्रदायनाम निर्दिशति । यथा- केचित् (३।२३) = बाह्यार्थवादिनः; अपरे ( ४२३ ) = विज्ञानवादिनः; अपरे (४|१० ) = सांख्याः; अपरे ( ३ | ५२ ) = वैशेषिकाः; कैश्चित् ( ३।१३ ) == बौद्धोक्तं दूषणम् ; अपरः ( ३ । ११) = स्वरूपान्यथात्ववादी बौद्धः । = = योगसूत्रस्य भाष्यस्य चानेके पाठभेदा योगवार्त्तिकतोऽवगम्यन्ते । अन्यत्रै तद्विषयको विचारः करिष्यते, अत्र खलु पाठभेदस्थलानि निर्दिश्यन्ते । तथाहि- १११७, ११२१, ११२५, २१२३; भाष्यपाठमेदस्थलम्-१/२४, १/१० ( द्विः ), ३३२, ३४१, ४/१३ | क्वचिच्च प्रचलितभाष्यपाठस्य प्रामादिकत्वं स्पष्टमुक्तवान् भिक्षुः ( ३।३२ ) । भिक्षुव्याख्यासमीक्षा – भिक्षुव्याख्या यद्यपि बहुत्र भाष्यार्थावबोध- कारिणी, विशिष्टसूचनाप्रदा च, तथापि क्वचिद् भिक्षुव्याख्यानं विचारपदवी- मारोहति । योगशास्त्रानभ्युपगतानि मतान्यपि तेनोक्तानीति महचू चित्रम्' । मन्ये तात्कालिकमतैः सह समन्वयकरणमावश्यकमिति कृत्वा भिक्षुस्तथा निरदिक्षत् । न योगविषयिण्यः सूक्ष्मा गूढा वा दृष्टयो योगवार्त्तिके दृश्यन्ते, यद्यपि श्रुतिस्मृत्यादिवचनभूयिष्ठोऽयं ग्रन्थः । ४/१० भाष्ये शरीरपरिमाणाकारं चित्तमित्यपरेषां मतमित्युक्तम् । सांख्यीय-मतभेदोऽयमिति भिक्षुः । तदिदं कथनं न सम्यक्, न खलु सांख्य- दृष्टया शरीरपरिमाणाकारं चित्तं भवितुमर्हति, चित्तस्याध्यात्मिकद्रव्यत्वात् । तथैव ४।११ सूत्रे यत् फलमिति पदमस्ति, तत् पुरुषार्थवाचकमिति भिक्षुः । तदिदमसंगतम्, यतो हि भोगापवर्गों पुरुषार्थी दृश्यदर्शनहेतुकावेव सांख्यीय- १. 'स्वर्गिणां भारतवर्षमागत्य लीलामानुषवि प्रयागादौ कर्मानुष्ठानस्य तत्- फलस्य च श्रवणात्' ( २११२), न खलु एतादृशकर्मकारी कविल्लोलया मानुष- शरीरं गृह्णाति । 'ये तु प्रपश्चस्य ब्रह्मविवर्ततावादिनः तैः सह च नास्माकं विरोध- लेशोऽपि वर्तते' ( ३।१५) इति भिक्षुमतमपि न योगानुसारि । ३११८ वात्तिके उक्तं यद् आवस्य आचार्यो लिङ्गशरीरविहारीति, इदमपि मतमन्याय्यं, न खलु केवलं लिङ्गशरीरं स्थातुमुत्सहते । २. योगशास्त्रान्तराणि तु भिक्षुणा बहुत्र स्मृतानि ( ३१२६, ३१२८ ) | क्वचिच गुरुमुखस्यावश्यकतापि तेन स्वीकृता ( ३१३० ) । तन्त्रान्तरमतमपि तेन निर्दिष्टम् (३।४ ) । क्लेशेति तान्त्रिकी संज्ञाऽविद्यादीनामिति चोक्तम् ( २१३ ) |