( ४० ) सहभुवां प्रातिभादिविभूतीनां च विषये यदुक्तं तत् सर्वथा योगसूत्रशब्दानु- करणपरमिति दृश्यते ( १ | ३०: १ | ३१; ३ | ३६ ) । अत्र व्यासभाष्यमपि अनुक्कृतमित्यपि दृश्यते । लिङ्गपुराणस्योत्तरार्धे नवमाध्यायेऽपोश्वरविषयिणी या चर्चा विद्यते ( ३६-३२ श्लोकेषु ) सापि योगसूत्रं १।२३-२६ भाष्यं च सर्वथा शब्दतोऽनुकरोतीति दृश्यते । पूर्वोत्तरपक्षरूपेण भाष्ये यदुक्तं तत् सर्वमत्र पुराणे तेनैव रूपेण प्रोक्तमित्यवलोक्यते, अतः प्रतीयते यदिदं पुराणगतं योगप्रकरणं केनापि विदुषा योगसूत्रं भाष्यं चाश्रित्य प्रणीतमिति | विष्णु- पुराणे योगसूत्रसाम्यमस्ति शब्दतः, तच्च वाचस्पतिना स्वटीकायां यथास्थानं दर्शितम् । वायु-मार्कण्डेयादिष्वपि योगसूत्रेण सह शब्दसाम्यमस्ति, तच्च योगविद्या - ग्रन्थे दर्शयिष्यते । शिवपुराणस्य वायवीयसंहितायामपि योगसूत्रभाष्यानुकरणं दृश्यते । आह च अप्पय्यदीक्षितः शिवार्कमणिदीपिकायाम् “योगशास्त्रे हि ईश्वर- विषयकाणि सप्तसूत्र (णि ( १ | २३-२६) शिवपुराणे परमेश्वरप्रतिपादकानि वचनानि अनुसृत्यैव कृतानि । शिवपुराणे हि वायुसंहितायां वचनानि दृश्यन्ते- 'न शिवस्याणवी बन्धः सा परैव न संशय' इति । अतो योगशास्त्रे उपबृंहिता योगविद्या श्वेताश्वतरनिरूपिता शिवयोगविद्यैव" इति (२।१ । ३) । भागवतपुराणेऽपि योगसूत्रच्छाया दृश्यते- भाग० २।२।१५ द्र० यो० सू० २।४६ द्र० यो० सू० ४।१ भाग० ४।६।८ भागवते च 'बहुयोगग्रन्थसम्मतम्' इत्युक्तम् ( ५/१०/१५), अतः प्रतीयते भागवतात् प्रागू बहवो योगग्रन्थाः प्रणीता इति । सिद्धेशनामगण- नायामत्र पतञ्जलिनाम स्मृतम् ( ६ | १५/१२-१५ ) । हिरण्यगर्भयोगोऽपि स्मृतः – "इदं हि योगेश्वरयोगनैपुणं हिरण्यगर्भो भगवान् जगाद यत्" इति (५ | १६ | १३ ) । योगवासिष्ठेऽस्ति श्लोकः – “यथाभिवाञ्छितध्यानात् "एकतत्त्व- घनाभ्यासाद्" इति ( उपशमप्र० ७८ | १६ ) | श्लोकोऽयं योगसूत्रानुसारोति स्पष्टमेव । ( द्र० १।३६, १।३२ ) वैष्णत्रग्रन्थेषु योगसूत्रप्रसङ्गः - भागवतटीकाकृत् श्रीधर आह— "पातञ्जलेऽपि एत एव उक्ताः- अविद्या स्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः” इति ( ३ | १२ | २ ) । स्वकृतटीकासु श्रीधरोऽन्यत्रापि योगसूत्रमुदाजहार । यमादिव्याख्यायाम् अन्येऽपि वैष्णवाचार्याः योगसूत्राणि निर्देिशन्ति स्मेति दृश्यते ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/५३
दिखावट