पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. ४ सू. २३ ] पातञ्जलयोगसूत्रम् मनो हि मतव्येनार्थेनोपरक्तम् । तत्स्वयं च विषयत्वाद्विषयिणा पुरुषेणात्मीयय। वृत्त्याभिसंबद्धम् । तदेतच्चित्तमेव द्रष्टृदृश्योपरक्तं विषयविष- यिनिर्भासं चेतनाचेतनस्त्ररूपापन्नं विषयात्मकमप्यविषयात्मक मिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते । तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः । अपरे चित्त- मात्रमेवेदं सर्व नास्ति खल्वयं गवादिर्घटादिश्च सकारणो लोक इति। अनुक- म्पनीयास्ते । कस्मात् ? अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति । समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतस्तस्यालम्बनीभूतत्वा- दन्यः । स चेदर्थश्चित्तमात्रं स्यात्कथं प्रज्ञयैव प्रज्ञारूपमवधार्यत । तस्मा- त्प्रतिबिम्बीभूतोर्थः प्रज्ञायां येनावधार्यते स पुरुष इति। एवं ग्रहीतृग्रहण- ग्राह्यस्वरूपचित्तभेदात्त्रयमध्येतज्जातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तैरधि- गतः पुरुष इति ॥ २३ ॥ तदेतदाह - मनो हीति। न केवलं तदाकारापत्त्या मन्तव्येनार्थेनोपरक्तं मनोऽपि तु स्वयं चेति । चकारो भिन्नक्रमः पुरुषेणेत्यस्यानन्तरं द्रष्टव्यः। तच्छा- यापत्तिः पुरुषस्य वृत्तिः । इयं च चैतन्यच्छायापत्तिश्चित्तस्य वैनाशिकैरभ्युपेतव्या । कथमन्यथा चित्ते चैतन्यमेत आरोपयाम्बभूवुरित्याह – तदनेनेति । केचिद्वैनाशिका बाह्यार्थ- वादिनः । अपरे विज्ञानमात्रवादिनः । ननु यदि चित्तमेव द्रष्ट्राकारं दृश्याकारं चानुभूयते हन्त चित्तादभिन्नावेवास्तां दृष्टदृश्यौ । यथाहुः - अभिन्नोऽपि हि बुद्धयात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति । तत्कथमेतेऽनुकम्पनीया इत्यत आह-समाधिप्रज्ञायामिति । ते खलूका- भिरुपपत्तिभिश्चित्तातिरिक्तं पुरुषमभ्युपगम्याप्यष्टाङ्गयोगोपदेशेन समाधिप्रज्ञाया- मात्मगोचरायामवतार्य बोधयितव्याः। तद्यथा-समाधिप्रज्ञायां प्रज्ञेयोऽर्थ आत्मा प्रतिबिम्बीभूतोऽन्यः । कस्मात् ? तस्यात्मन आलम्बनीभूतत्वात् । अथ चित्तादभिन्न- मेव कस्मान्नालम्बनं भवतीति । यदि युक्तिबोधितोऽपि वेजात्याद्वदेत्तत्र हेतुमाह- स चेदात्मरूपोऽर्थश्चित्तमात्रं स्यान्न तु ततो व्यतिरिक्तस्ततः कथं प्रज्ञयैत्र प्रज्ञारूपमवधार्येत, स्वात्मनि वृत्तिविरोधात् । उपसंहरति - तस्मादिति । समीच नोपदेशेनानुकम्पिता भवन्तीत्याह-एवमिति । जातितः । स्वभावत इत्यर्थः ॥ २३ ॥